पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे

कृष्णा शूलासिकरा रिपुदिनवृक्षोद्भवैः समित्प्रवरैः । वकृतसंसिक्तै- होमान्मासेन मारयेदुर्गा ॥ ६२ ।। नक्षत्रवृक्षसमिधो मरिचानि च तीक्ष्णहिङ्गुशकलानि । मारणकर्मणि विहिता- न्यरुष्करस्नेहसिक्तानि ।। नक्षत्रवृक्षसमिधां विलिखितसाध्याभिधानकर्मवताम् । सचतुश्चत्वारिंश- त्तत्त्वयुजां होमकर्म मरणकरम् ।। ६४ ।। मरिच नौद्रसमेतं प्रत्यक्पुष्पीपरागसंभिन्नम् । उष्णाम्भ:परिलुलितं प्रसेचयेदृक्षवृक्षपुत्तल्याः ॥ ६५ ॥