पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनत्रिंशः पटलः॥

अथ वक्ष्यामि विद्यायास्त्रिष्टुभः प्रवरं विधिम् । ऋषिच्छन्दोदेवताभिरङ्गन्यासक्रमैः सह ॥ १ ॥ मारीच: काश्यपो ज्ञेय ऋषिश्छन्दः स्वयं स्मृतम्। देवता जातवेदोऽग्निरुच्यन्तेऽङ्गान्यतः परम् ।। २ ।। नवभिः सप्तभिः षड्भिः सप्तभिश्च तथाष्टभिः । सप्तभिर्मूलमन्त्रेण कुर्यादङ्गानि षट् क्रमात् ॥ ३ ॥ अङ्गुष्ठगुल्फजङ्घासु जानूरुकटिगुह्यके । सनाभिहृदयोरोजपार्श्वयुक्पृष्ठकेषु च ॥ ४ ॥ स्कन्धयोरुभयोर्मध्ये बाहुमूलोपबाहुषु । प्रकूर्परप्रकोष्ठेषु मणिबन्धतलेषु च ॥ ५ ॥ मुखनासाक्षिकर्णेषु मस्तमस्तिष्कमूर्धसु । न्यसेन्मन्त्राक्षरान्मन्त्री क्रमाद्वा व्युत्क्रमात्तनौ ॥ ६ ॥