पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे

एकैकं त्रिसहस्त्रं मन्त्री समभीष्टसिद्धये मुक्त्यै । अक्षरसहस्रसंख्यं मुख्यतरैः केवलैस्तिलैर्जुहुयात् ॥ ६९ ॥ दुरितोच्छेदनविधये मन्त्री दीर्घायुषे च विशदमतिः । आयुष्कामो जुहुया- त्पायसहविराज्यकेवलाज्यैश्च ॥ ७० ॥ दूर्वाभिः सतिलाभिः सर्वैस्त्रिसहस्रसंख्यकं मन्त्री । अथ तु त्रिमधुरसिक्तै- ररुणैर्जुहुयात्सरोरुहैरयुतम् ।। ७१ ॥ नष्टश्रीरपि भूयो भवति मनोज्ञश्च मन्दिरं लक्ष्म्याः । अन्नाद्यर्थ्यत्रैरपि पालाशैर्ब्रह्मवर्चसे जुडुयात् ।