पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टाविंशः पटलः । ४२५

प्रह्लादिनीं प्रभां नित्यां सविश्वंभरसंज्ञकाम् । विलासिनीप्रभावत्यौ जयां शान्तां क्रमाद्यजेत् ।। ६३ ।। तमोपहारिणीं सूक्ष्मां विश्वयोनिं जयावहाम् । पचालयां परां शोभां भद्ररूपां तथा यजेत् ॥ ६४ ।। मातृभिश्चा‌रुणाभिश्च षष्ठयथो सप्तमीग्रहैः । आदित्यपार्षदन्तैरप्यष्टमीन्द्रादिभिः सुरैः ।। ६५ ।। आवृत्तिः कथिता चेति वेधानं परमीदृशम् । गन्धादिभिर्निवेद्यान्तैर्दिनेशं सम्यगर्चयेत् ॥ ६६ ॥ अथ पुनरमुमभिषिञ्चे- त्संयतचित्तं च देशिक: शिष्यम् । कृतहुतविधिमपि विधिव- द्विहितबलिं दत्तदक्षिणं गुरवे ॥ ६७ ।। भूयस्त्वक्षरलक्षं गायत्री संघतात्मको जत्वा । जुहुयात्पायसतिलघृत- दुर्वाभिर्दुग्धतरुसमिद्भिरपि ।। ६८ ॥