पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे सब्रह्मविष्णुरुद्रैश्च सेश्वरैः ससदाशिवैः । ससर्वात्माह्वयैः कुर्यादङ्गन्यासं समाहितः ।। ५७ ।। एवं कृत्वा तु सिद्धयर्थं गायत्रीं दीक्षितो जपेत् । अथ त्रिगुणिते प्रोक्त विचित्रे मण्डलोत्तमे ॥ ५८ ।। शक्तिभिः प्राक्समुक्ताभिः सौर पीठं समर्चयेत् । तत्र निक्षिप्य कलशं यथापूर्वोपचारतः ॥ ५९॥ गव्यैर्वा पञ्चभिः क्वाथजलैर्वा पूरयेत्ततः । तस्मिन्नाबाह्य कलशे शक्तिमित्थं विचिन्तयेत् ॥ ६० ।। मन्दाराह्वयरोचनाञ्जनजपाख्याभैर्मुखैरिन्दुम- द्रत्नोद्यन्मकुटांशुभिस्ततचतुर्विंशाणचित्रा'1 तनुः । अम्भोजारिदराह्वयौ गुणकपालाख्ये च पाशाङ्कुशे- ष्टाभीतीर्दधती भवेद्भवदभीष्टोत्तारिणी तारिणी ॥ ११ ॥ संचिन्य भारमिति प्रमाणां त्रिशक्तिमूर्तीः प्रथम समर्च्य॑ । आदित्यशक्त्याख्यचतुष्टयेन यजेद्वितीयावरणे दिनेशम् ।। ६२ ।। 1. मकुटांशुसंततचतुर्विशार्णतत्त्वा