पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे 1 महत्त्वाच्च महत्त्वाच महःशब्दः समीरितः । तदेव सर्वजनता तस्मात्तु व्याहृतिर्जनः ॥ ९ ॥ तपो ज्ञानतया चैव तथा तापतया स्मृतम् । सत्यं परत्वादात्मत्वादनन्तज्ञानतः स्मृतम् ।। १० ।। प्रणवस्य व्याहृतीनामत: संबन्ध उच्यते । अकारो भूरुकारस्तु भुवो मार्णः स्वरीरितः ॥ ११ ॥ बिन्दुरंमहस्तथा नादो जन: शक्तिस्तपः स्मृतम् । शान्तं सत्यमिति प्रोक्तं यत्तत्परतरं पदम् ॥ १२ ॥ प्रणवस्य व्याहृतीनां गायत्र्यैक्यमथोच्यते ।। अत्रापि तत्पदं पूर्वं प्रोक्तं तदनुवर्ण्यते ॥ १३ ॥ तद्वितीयैकवचनमनेनाखिलवस्तुनः । सृष्टयादिकारणं तेजोरूपमादित्यमण्डले ।। १ ।। अभिध्येयं परानन्दं परं ब्रह्माभिधीयते । यत्तत्सवितुरित्युक्तं षष्ठयेकवचनात्मकम् ।। १५ ।। धातोरिह समुत्पन्नं प्राणिप्रसववाचकात् । सर्वासां प्राणिजातीनामिति प्रसवितुः सदा ॥ १६ ॥ 1. सदानन्द