प्रपञ्चसारे तन्नश्चण्ड इति प्रोक्त्वा भूयो ब्रूयात्प्रचोदयात् । एषा तु चण्डगायत्री जपात्सानिध्यकारिणी ॥ ३७॥
अङ्गैः समातृभिर्मन्त्री लोकेशैः संप्रपूजयेत् । कूर्मों विष्णुयुतो दण्डी बीजमस्योच्यते बुधैः ।। ३८ ॥
बदेच्चण्डेश्वरायेति बीजादिहृदयान्तिकम् । अर्चनादिष्विमं मन्त्रं यथावत्संप्रयोजयेत् ॥ ३९ ।।
एवं जपहुतार्चाभिः सिद्धमात्रे तु मन्त्रके ।
वाञ्छितादधिकं लभ्येत्काञ्चनं नात्र संशयः ॥ ४०॥
न्न्यक्षरस्य जपो यावत्तावज्जप्यात्षडक्षरम् । ऐहिकामुष्मिकीं सिद्धिं यथा हि लभते नरः ।। ४१ ॥
कृत्वा पिष्टेन शल्या: प्रतिकृतिमनलं चापि काष्टैश्चिताना- माधायारभ्य पुंसस्त्रिमधुरलुलिता दक्षिणाङ्गुष्टदेशात् छित्त्वा च्छित्त्वाष्टयुक्तं शतमथ जुहुयाद्योषितां वामपादा- द्विप्रादीनां चतुर्णी वशकरमनिशं मन्त्रमेतद्धुतान्तम् ।।
अनुदिनमष्टशतं यो जुहुयात्पुष्पैरनेन मन्त्रेण ।