पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सतविंशः : पटलः॥


अथ सजपहुताद्यो वक्ष्यते साधुचिन्ता-
 मणिरभिमतकामप्राप्तिकल्पद्रुमोऽयम् ।
अनलकषमरेफप्राणस्रद्यान्तवाम-
 1श्रुतिहिमधरखड्गैर्मण्डितो मन्त्रराजः ॥ १ ॥

ऋषिरपि काश्यप उक्त-
 श्छन्दोऽनुष्टुप्च देवतोमेशः ।
2यान्तैः षड्भिर्वर्णै-
 रङ्गं वा देवतार्धनारीश: ॥ २ ॥

अहिशशधरगङ्गाबद्धतुङ्गाप्तमौलि-
 स्त्रिदशगणनताङ्घ्रीस्त्रीक्षण: स्त्रीविलासी ।
भुजगपरशुशूलान्खड्गवह्नी कपालं
शरमपि धनुरीशो बिभ्रदव्याच्चिरं वः ॥ ३॥

1. श्रुतिशश. 2. स्वान्तः