पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
प्रपञ्चसारे

१०४ प्रपञ्चसारे जित्वापमृत्युरोगा- न्प्रयात्यसावायुषश्च दैर्ध्यमपि ॥५१॥ जन्मर्क्षाणां त्रितये च्छिन्नाकाष्मर्यवकुलकैरिध्मैः । क्रमशो हुनेत्सहस्रं नश्यन्त्यपमृत्युरोगदुरितानि ।। ५२ ॥ सितसिद्धार्थसहस्रा- हुत्या नश्यन्त्युपद्रवा ज्वरजाः। तद्वदपामार्गहुता मृत्युंजयमप्यरोगतां लभते ॥ ५३ ।। प्रोक्तैर्ध्यानजपार्चनाहुतविधानाद्यैश्च मृत्युंजयं यो मन्त्री प्रभजन्मनुं प्रतिदिनं प्रातः प्रसन्नाशयः तस्येष्टानि भवन्ति संसृतिरपि स्फीता च पुत्रादयः संपन्न: सुसुखी च जीवति चिरं देहापदि स्याच्छिवः ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे षड्विंशः पटलः॥