पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०३
षड्विंशः पटलः ।


तनोति शान्तिं नचिरेण होमः
 संजीवनं चाब्दशतप्रमाणम् ।। ४७ ॥

संभोजयेद्धोमदिने च विप्रा-
 न्सप्ताधिकान्स्वादुभिरन्नजातैः ।
सतर्णका गाश्च हुतावसाने
 दद्याद्विजेभ्यो हुतकर्मकृभ्द्यः ॥ ४८ ॥

निजजन्मदिने शतं शतं यो
 जुहुयाद्रव्यवरैः ससप्तसंख्यैः ।
मधुरैरपि भोजयेच्च विप्रा-
 नभिवाञ्छन्नियमेन दीर्घमायुः ॥ १९ ॥

अथ वा सप्तभिरतै-
 र्द्रव्यैरेकेन वा सहस्रतयम् ।
जन्मर्क्षे होममात्रा-
 न्निरुपद्रवमुत्तमं व्रजेदायुः ॥ ५० ।।

दूर्वात्रितयैर्जुहुया-
 न्मन्त्रविदेकादशाहुतीर्दिनशः ।।