पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षड्विंशः पटलः ॥ अथ प्रवक्ष्यते मन्त्रो दक्षिणामूर्तिसंज्ञकः । जपतामिष्टसंसिद्धिविधानसुरपादपः ॥ १॥ अत्रिः क्षिणा कालकर्णकामिकायुप्रयेक्षराः । सुध्यामध्यगता: स्युभ्यं बटमूलनिवासिने ॥ २ ॥ नैधातृनिरताङ्गाय नमो रुद्राय शंभवे । तारशक्तिनिरुद्धोऽयं मन्त्रः षट्त्रिंशदक्षरः ।। ३ ।। शुकः प्रोक्तो मुनिश्छन्दोऽनुष्टुप्च समुदाहृतम् । दक्षिणामूर्तिरुद्रोऽस्य देवता समुदीरिता ॥ ४ ॥ तारशक्त्यादिकैर्हाङाद्यन्तैर्मन्त्राक्षरैः क्रमात् । ऋत्वक्षिवसुवस्वग्निगुणवर्णैर्विभागशः ॥ ५ ॥ मन्त्री कुर्यात्षडङ्गानि जातियुञ्जि समाहितः । कालिकश्रुतिद्वग्गण्डद्वयनासास्यके दश ॥ ६ ॥