पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३९० प्रपञ्चसारे मात्राशेशैरुक्तं पञ्चाावरणं विधानमीशस्य ।। ६९ ॥ आप्यायिनी शशियुताप्यरुणाग्निमाया बिन्द्वन्तिका चलकुलीभुवनेन्दुयुक्ता । दीर्घाकलायुतशिवश्च शिवायवर्णा- स्याच्छूलिनो मनुरयं वसुवर्णयोगी ॥ ७० ॥ वामाड्कन्यस्तवामेतरकरकमलायास्तथा वामबाहु- व्यस्तारक्तोत्पलाया: स्तनविधृतिलसद्बामबाहु: प्रियायाः। सर्वाकल्पाभिरामो धृतपरशुमृगेष्टः करैः काञ्चनामो ध्येय: पद्मासनस्थ: स्मरललिततनुः संपदे पार्वतीशः ॥ पञ्चार्णोक्ताङ्गाद्यः परब्रह्मप्रदिष्टपूजश्च । वसुमितलक्षजपोऽयं मन्त्रस्तांवत्सहस्रमश्च ॥ २ ॥ इति जपहुतपूजाध्यानकैरीशयाजी प्रियतरचरित: स्यात्सर्वतो देहभाजाम् ।