पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
तृतीयोऽङ्कः

 विदूषकः-(क) अबिह मेदआणि त्ति करिअ काण्डिळळड्डुआ मे पडिच्छदा ।

 श्रमणकः-(ख) उम्मतआउस ! णीआदेहि णीआदेहि । जदि णणीआदेसि, तुवं सवेमि ।

 उन्मत्तकः-(ग) पशीददु पशीददु शमणअ ! भअवं । मा खु मा खु मे शविदं। गहण गहण।

 श्रमणकः-(घ) बह्मणाउस । पेक्ख पेक्ख मम स्पभावं ।


 (क) अविधा मोदका इति कृत्वा कण्डिललड्डुका मे प्रतीष्टाः ।

 (ख) उन्मत्तकोपासक । निर्यातय निर्यातय । यदि न निर्यातयसि, त्वां शपामि ।

 (ग) प्रसीदतु प्रसीदतु श्रमणक ! भगवान् । माखलु माखलु मां शप्तुम् । गृहाण गृहाण ।

 (घ) ब्राह्मणोपासक । प्रेक्षस्व प्रेक्षस्व मम प्रभावम् ।


प्रचुरफलदेहनक्षभाः, कोमलाः अक्लेशसाध्याश्च सन्तः, मधुराः रमणणीयाः भवान्ति । ते चेत् त्वयैकेन स्वबुद्धिमात्रप्रामाण्येन निर्णीताः तव क्षयं कुर्युरिस्याभ्यन्तरः । ‘कं शिरोभ्बुनोः 'स्यात् तेमनं तु नेष्ठानम्’ इति च अमर स्थूलिकेति ‘स्थूल परिबृहणे’ इति धातोर्धात्वर्थनिर्देशो प्वुल् ॥

 अविहेति । अविधा कष्टं । मोदकानीति कृत्वा मोदकानिमान् भक्षयिव्याभीत्याशां कृत्वा । कण्डिललड्डुका: कण्डिलः सुराकरः तत्सबंन्धिनो लड्डुकाः पूपविशेषाः । मे प्रतीष्टाः मया प्रतीश्चिताः । मोदकाः सुराभिरुपमितत्वात् सुराकारलड्डुका इव मम ब्राह्मणस्याभक्ष्याः संवृता इति भावः । इति बाह्योऽर्थः । कौशाम्बीप्रयाणं स्वमिनः क्षिप्रं कर्तव्यमित्यमुं मन्त्रिसन्देशं निवेदितवता मया ‘तद् वासवदत्तया सहैव कालं प्रतीक्ष्य करिष्यामीति विरुद्धः स्वामिनः प्रतिसन्देशः स्वीकृत इत्याभ्यन्तरः । ‘कडि मदे’ इत्यस्माद् भावकृदन्तान्मस्वर्थीये इलच्प्रत्यये कण्डिलशब्दः ॥

 उम्मत्तेत्यादि । शापो निग्रह एकत्र, अन्यत्र तूपालम्भः ॥

 पशीद्दु इत्यादि । माखलु माखलु, आरभस्वेति क्रियाध्याहारः । भयाद् द्विर्वचनम् ॥

 बह्मणेत्यादि । प्रभावं निग्रहानुग्रहशक्तिमिति बाह्यार्थपक्षे । मद्वाक्यमनुरू