पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
प्रतिज्ञायौगन्धरायणे सव्याख्याने

युथूकिदा अधण्णस्स मम भोदआ दिट्ठपुरुवा एव्वं संवुता।

 श्रमणकः (क) भो उम्मत्तआउस ! णीआदेहि णीआदेहि एदाणि मोदआणि कत्थूळिआफणेपण्डराणि बहुपिट्ठसमिद्धकोमळाणि णिट्ठाणिआ सुरा विअ महुरााणि । मा दे खइदाणि खअं उप्पादन्ति ।


न्यस्य मम मोदका दृष्टपूर्वा एव संवृत्ताः ।

 (क) भो उन्मत्तकोपासक ! निर्यातय निर्यातय एतानि मोदकानि कस्यूलिकाफेनपाण्डराणि बहुषिष्टसमृद्धकोमलानि निष्ठानिताः सुरा इव मधुराणि । मा ते खदितानि क्षयमुत्पादयन्तु ।

शुद्धीकृताः । अत एव दृष्टपूर्वा एव संवृत्ताः, पूर्वं दृष्टाः केवलं जाताः, न तु ममेदानीं खादनयोग्याः श्रमणकेनाशुद्धीकरणादिति भावः । हाधिक् कष्टम् । इति बाह्योऽर्थः । अधन्यस्य न विद्यते धन्यो यस्मात् तस्य । मम, दृष्टपूर्वाः ज्ञातपूर्वाः। मोदकाः स्वक्षमिसन्देशाः । क्ष्रमणकेन रुमण्वता । थुथूकृताः अनुमोदिताः सन्तः । उन्मत्तकस्य हस्ते संवृत्ता एव यौगन्धरायणस्य हृदये सम्यग् वर्तिष्यन्त एव । वर्तेनस्य भाविनो भूतत्वाख्यानमविरावश्यम्भावबोधनार्थं । क्षणाद वर्तिष्यमाणे मन्त्रे स्वामिसन्देशानवश्यं यौगन्धरायणहृदये स्थापयिष्यामीत्याभिप्रायः । हाघगित्यतेत् कृत्रिमसङ्केतवशात् सन्तोषेऽपि । इत्याभ्यन्तरः ।

 भो इति । भो उन्मत्तकोपासक ! कथूळीकफेनपाण्डराणि कस्य जलस्य स्थूलिका परिबृहणं कस्थूलिका बहुबिन्दुसमवायपरिबृंचूंहितं प्रभातदृश्यं निवहिमजलमुच्यते , कस्थूलिका इव फेननिव च पण्डराणि धवलानि । प्रभाते यत्रक्क्वचिन्निष्ठीवनवद् हिमजलं यद् दृश्यते, तस्य कस्यूरेिकाफेन इति संज्ञेति टिप्पणी काचित् । बहुपिष्टसमृद्धकोमलानि बहुभिः पिष्टैः मृदिततण्डुलचूणैः समृद्धानि कोमलानि च । निष्ठानिताः सुरा इव सञ्जतनिष्ठानाः अर्थात् तेमनयुक्तः मदिरा इव । मधुराणि, मोदकानि, निर्यातय निर्यातय प्रत्यर्पय प्रत्यर्पय । तेषाम् अप्रत्यर्प्यखादने विभीषिकामाह—ते स्वया, इदमव्ययम् । खादितानि भक्षितानि सन्ति, अर्थान्मोदकानि, क्षयं रोगविशेषं । मा उत्पादयन्तु । यदि क्षयं नेच्छसि, तानि मा खादीरित्यर्थः । इति बाह्योऽर्थः । हे यौगन्धरायण ! विदूषकेण प्रार्थेमानं मन्त्रावसरं देदि देहि । एतानि मोदकानि प्रयुयुक्षिता उपायाः। पाण्डराः अनिष्टङ्ककलङ्कव्यपोहशुद्धः । बहुपिष्टसमृद्धकेमलाः बहुपिष्टाः बहुभिः सह बहुकुरवो विमृष्टाः, अत एव समृद्धाः