आहि । के के इह, किं कथ्यं, विळवन्दि ।
विदूषकः-(क) अविहा पडिहाररक्खअउत्तिं खु समणाओ अणुहोदि । भो समणअ ! भअवं ! एसो उम्मतओ मम मोदअमळ्ळअं गइणिअ ण देदि ।
श्रमणकः-(ख) मोदअं पेक्खामि दाव ।
उन्मत्तकः-(ग) पेक्खदु पेक्खदु शमणअ ! भवं ।
श्रमणकः-(घ) धु थु ।
विदूषकः--(ङ) हद्धि उम्मत्तअस्स हत्थे ईहामत्तएण समणएण
किं कार्यं , विलपन्ति ।
(क) अविधा प्रतिहाररक्षकवृत्तुिं खलु श्रमणकोऽनुभवाते । भोः श्रमणक ! भगवन् ! एष उन्मत्तको मम मोदकमल्लकं गृहीत्वा न ददाति ।
(ख) मोदकं प्रेक्षे तावत् ।
(ग) प्रेक्षतां प्रेक्षतां श्रमणक ! भवान् ।
(घ) थु थु ।
(ङ) हाधिग् उन्मत्तकस्य हस्ते ईहामात्रकेण श्रमणकेन थुथुकृता अध-
आविहेति । अविधा । अमणकः प्रतिहाररक्षकवृत्तिं प्रतिहाररक्षकस्य वृति जीविकाम् । अनुभवति, राजद्वाररक्षको हि अतर्किताक्रोशकर्तृकारणादि गवेषयति, तद्वदयमिति हर्षोपहासः भगवन्निति शक्यभिक्षुषु सामुदाचारिकं संबोधनम् । मोदकमल्लकं प्रशस्तापूपम् अथ च मन्त्रावसरम् ॥
मोअमित्यादि । अहमपि मन्त्रमभिलषामीति आभ्यन्तरोऽर्थः ।
पेक्खदु इत्यादि । प्रेक्षतामिति अपूपदर्शनस्य मन्त्रचिन्तनस्य चाम्यनुज्ञानम् ।
दार्शिते मोदके जुगुप्सामाविष्करोति—थुथु इति । जुगुप्सिते वस्तुनि दृष्टे प्रायः सनिष्ठीवं क्रियमाणो जुगुष्सासूचको ध्वानिबिशेषेऽयं । पश्चान्तरे तु एक एक स्वसूच्यजुगुप्साविपरीतस्य सन्तोषस्य कृत्रिमसमयवशेन सूचको द्रष्टव्यः । सन्ताषेश्च मन्त्राभ्यनुज्ञानविषयः ॥
हद्धीति । हाघिक् । उन्मत्तकस्य हस्ते स्थिताः अधन्यस्य खादनभाग्यहीनस्य, मम, मोदकाः ईहामात्रकेण श्रमणकेन शाक्यमिक्षुणा थुथुकृताः थुथुकारेणा- 11