पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
प्रतिज्ञायौगन्धरायणे सव्याख्याने

(नेपथ्ये)

 (क) मा भाआहि मा भाआहि बह्मणाउस । मा भाआहि ।

 विदूषकः- (सहर्षम्) (ख) आअदे चन्दे समाअदाणि सव्वणक्खत्ताणि । अघं बह्मणभावं । ईहामत्त एण समणएण अभअं दीआदि ।

(ततः प्रविशति श्रमणकः।)

 श्रमणकः -(ग) मा भाआहि मा भाआहि बक्षणाउस ! मा भा-


 (क) मा बिभीहि मा बिभीहि ब्राह्मणोपासक । मा बिभीहि ।

 (ख) आगते चन्द्रे समागतानि सर्वनक्षत्राणि ) अघं ब्राह्मणभावः। ईहामात्रकणे श्रमणकेनाभयं दीयते ।

 (ग) मा बिभीहि मा बिभीहि ब्राह्मणोपासक । मा बिभीहि। के के इह,


 संकेताकोशं श्रुतवतः कपटक्ष्रमणकस्य रुमण्वतो नेपथ्ये वचनं-मेल्यादि । धर्मोपदेष्ट्टत्वेनारमन उपास्यत्वमभिमन्यमानानां श्रमणकानां अन्यान् प्रति समुदाचारः-उपासकेति । हे ब्राह्मणोपासक ! मा बिभीहि मा बिभीहि , तवाहं शरणमस्मीत्यर्थो बाह्यः । मन्त्रार्थमहमागतोऽस्मीत्याभ्यन्तरः ।

 अघमिति । ब्राह्मणभावः अघं ब्राह्मणस्वं शोकहेतुः निर्गुणस्वाच्छोचनीयमित्यर्थः । निर्गुणत्वमेव प्रतिपादयति-ईहामात्रकेण ईहा कर्म मात्रा परिच्छदो यस्य तेन । सत्कर्मप्रधानेनेत्यर्थः । मामकाभयेच्छाप्रकाश्यनमात्रेणेति वा । श्रमणकेन शाक्यभिक्षुणा । अभयं दीयते मह्यम् । एवञ्चाभयार्थिनं मां प्रति भ्रमणकस्यैवाभयदायिन उपस्थानाद् ब्राह्मणस्य कस्याप्यनुपस्थानाद् ब्राह्मणत्वं निर्गुणं अमणकत्व- मेव गुणाव्यमिति भावः । इति बालोऽर्थः। रुमण्वानाहूतमात्रः सद्यः सन्निधाय मन्त्रावसरं ददामीत्याह, यौगन्धरायणस्तु सन्निहितोऽपि मन्श्रावसरं न दत्तवानित्यर्छौ, दुःखानुवर्यं इत्यभ्यन्तरः । चन्द्रे दयालैौ श्रमणके आगते सति, खर्वनक्षत्राणि समागतानि तत्समनच्छायाः अभयदानश्चमाः अन्येऽपि सत्पुरुषाः। समागताः समागतप्रायाः, अवश्यं समागमिष्यन्तीति बाह्योऽर्थः । चन्द्रे यौगन्धरायणे आगते सति, तत्सहचरावावामपि समगतावित्याभ्यन्तरः ॥

 तत इत्यादि ।

 मेत्यादि । इदं के के किं कार्यमुद्दिश्य विलपन्ति आतेशन्ति ।