पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
प्रतिज्ञायौगन्धरायणे सव्याख्याने

ओग्गारहस्सं दाव अहं । हीही बुड्ड्ढो विअ सुअरवत्थी सुद्धवादं एव्व उगिरामि । अहव लोहिदकच्चाअणीए केरउं मम केराअं त्ति करिअ सिवेणः


प्येनं खादामि । भवतु उद्गरिष्यामि तावदहम् । हीही वृद्ध इव सूकरवस्तिः


क्षणं, वत्सराजग्रहणपरितुष्टस्वामिदत्तधनाहिरण्यादिसकलभोग्यसमृद्धिशालितयेत्यर्थः । अलोभनीयं लोभनीयभावः स्वामिसकाशप्राप्तव्यम् अभिलषणीयं वस्तु किमपि नास्ति । एवञ्च पूर्णकामताहङ्कारग्रस्ततया महासेनचाराणां स्वकर्मणि यथावद् व्यापाराभाव इति भावः । अतो यौगन्धरायणश्वरैर्विज्ञाय गृहीतः स्यादित्याशङ्कया। अनवकाश: । अथवा, पथिकानाम् अस्मद्भृत्यानां गूढचारिणाम् । अक्षतभक्ततया अक्षतया अनपायया भक्ततया स्वाम्यनुरागेण हेतुना । अलोभनीयं शत्रपक्षसकाशात् स्पृइणीयं किमपि नास्ति । तेनास्मत्पक्ष्यै: परोपप्रलोभनदूषितैयौंगन्धरायण गृहित इति न शङ्कनीयमित्याभ्यन्तरः ।

 आदु इति । अथवा एनं मोदकम् । अपि खादामि अहमेव भक्षितवान् किम् । इति हास्यानुगुणो बाह्योऽर्थः । एनं अपि खादाभि, अहमेव प्रतिग्रहगामी सततमुखरमुखः क्कचित् प्रमादात् परपरिज्ञानहेतुभूतानि वचनान्युद्वीर्य यौगन्धरायणं नाशितवान् किम् इत्याभ्यन्तरः ।

 भोदु इति । भवतुशब्दो निपातोऽसूयाङ्गीकरे । अहम् उद्भरध्यामि तावत् , उद्भारयत्नेन निस्सृते वायौ भक्षितवस्तुगन्धं गृहीत्वा मोदकभक्षणमात्मकृतं निर्णेष्यामीति हास्यानुगुणोऽर्थो बाह्यः । तथाविधं किं किं प्रमादवचनमिति चिन्तयामीत्याभ्यन्तरः ।

 हाहीति । हीशब्दो हर्षे । स चास्मदोषाभावनिर्णयनिमित्तः । वृद्धः सूकरवस्तिरिव आध्मातो वराहमूत्राशय इव । शुद्धवातमेव उद्भिरामि, मोदकगन्धशून्यं वायुमेव निस्सारयामि । अतो । मोदकं नैवाहमखादिषमिति बाह्योऽर्थः । शुद्धवातमेव पराभ्यूहरन्ध्रविरहनिर्दोषं वाक्यमेव । उद्भिरामि उक्तवान्त्या इत्यान्तरः ।

 अहवेति । अथवा, शिवेन देवेन । लोहितकात्यायन्यः संबन्घि रक्तचामुण्डयाः संबन्धि तन्मन्दिरळब्धवात् तदीयामित्यर्थः । मम संबन्धीति कुत्वा स्वपरिचारदैवतस्वामिकं द्रव्यं स्वीयमिति मत्वा । प्रतिहस्तीकृतं भवेत् स्वह स्तंगतं कृतंस्यात् । अर्थान्मोदकम् । इति हास्यानुगुणोऽर्थः। शिवेन कल्याणबुद्धिना यौगन्धरायणेन । लोहितकात्यायन्याः संबन्धि वासवदत्तायाः संबन्धि तत्स्नेहपरवश-