पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
तृतीयेऽङ्कः ।

मोदअमळ्ळअं ण पेक्खामि । (विचिन्त्य) आ एकमोदअपरितोसिदो ण दाव ओळगो मं अणुसरदि। उच्चदाए पाआरस्स अगई कुक्कुराणं । अक्खदभत्तदाए अळोहणीअं पहिआणं । आदु अपि णं खाआमि । भोदु


माषकान् गणयित्वा बद्ध्वा प्रतिनिवृत्त इदानीं मोदकमल्लकं न प्रेक्षे । आ एकमोदकपारितोषितो न तावदवदग्नो मामनुसरति। उच्चतया प्राकारस्यागतिः कुञ्जराणाम् । अक्षसभक्ततयालोभनीयं पथिकानाम् । अथवा अ-


 तर्कितानि तान्येकशो युक्तया खण्डयति--आ एकेति । आ इति युक्तित्त्मरणे । अवलग्नः अवसक्तः मोदकखादनसक्तः, मोदकानयनवेलायां तदाशया पथि सङ्गतो वा भिक्षुक इत्यर्थः । एकमोदकपरितोषितः सन् एकेन मोदकेन तृप्तः सन् । भां, नतावदनुसरति नैवानुसृतवान् । वर्तमानसाभीप्यविवक्षया भूते लट्। मया सह नात्रागतः । किन्तु यथागतं स्वं स्थानं गत इत्यर्थः । अतोऽवलग्नो मोदकमल्लक मपहृतवानितिन शङ्कनीयमिति बाह्योऽर्थः। अवलग्नः षड्भागसक्तो राजा प्रद्योतः। एकमोदकपरितोषितः प्रधानेन मोदकेन वत्सराजबन्धनरूपेण प्रहर्षितः सन् । माम् उपलक्षणया यौगन्धरायणादीन् अस्मान् । नानुसरति गूढं चरतो नानुचरति, गर्वा न्धकारितहृदयत्वान्न जानातीत्यभिप्रायः । अतः प्रघोतो यौगन्धरायणमपि वदवानिति न शङ्कनीयमिति आभ्यन्तरोऽर्थः ।

 उच्चदाए इति । प्रकारस्य उच्चतया उन्नतत्वेन अलङ्घ्यत्वेन हेतुना । कुक्कुरांण शुनाम् । अगतिः अप्रवेशः । अर्थात् प्राकारळइघन प्रवेश्यायां देवकुलपीठिकायाम् । अतः कुक्कुरेषु मोदकापट्टरित्वं न याङ्कयमिति बाह्योऽर्थः । प्राकारस्य वत्सराज्यरक्षकस्वाच्छत्रुदुर्नीतिप्रतिरोधकत्वाच्च प्राकारतुल्यस्य यौगन्धरायणस्थ । उच्चतया प्रज्ञानतत्वेन हेतुना । कुक्कुराणां नीचबुद्धित्वेन क्ष्वतुख्यानां महासेनखचिबानाम्। अगति: गतिरुपायो नास्ति, अर्थाद् यौगन्धरायणं विग्रहीतुम् । अतो महासेनसचिवैः स विज्ञाय निगृहीत इति शङ्काया नावकाशः । इस्याभ्यन्तरः ।

 अक्खदेति । पथिकानाम् अध्वगानाम् । अक्षतभक्ततया अहीनान्नतया पाथेयसम्पन्नतया हेतुना । अलोभनीयम् अभिलषणीयं न भवति, अर्थादस्मन्भोदकम् । तत् कुतः पथिकेषु मोदकापहारित्वशङ्केति बाह्योऽर्थः । पाथ कानां नित्यसञ्चारितया पथिकतुल्यानां चाराणाम् । अक्षतभक्ततया, भक्तपदं सर्वभोग्योपळ-