पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
प्रतिज्ञायौगन्धरायणे सव्याख्याने

त्तारहोविस्रम्भवश्यत्वं तेनात्मन एकाकिनः कौशाम्बीप्रयाणं यथोक्तमरोचयमानस्य सहैव वासवदत्तया कर्तृभिच्छां च वसन्तकमुखाद् विज्ञाय मन्त्रिणोर्व्याकुलीमावः ततो यौगन्धरायणस्य वास वदत्तासहितवत्सराजहरणप्रतिज्ञानम् इतीद्दशा अर्थाश्वतुरोदारसंवादभङ्गिभेदसुभगमास्मिन्नङ्के प्रतिपादिताः । वत्सराजमोचनाभ्युपायमन्त्रनिश्वयपरवाचचङ्कोऽयं मन्त्राङ्क इत्युच्यते ।

 अत्रादौ वत्सराजदर्शनप्रत्यागतं विदूषकं प्रवेशयति---ततः प्रविशतीत्यादि । डिण्डि को नाम , यो विकृतवेषभाषणादिना जनस्य हास्यं जनयन् भिक्षामर्जयति स उच्यते, तस्येव वेषो यस्य स डिण्डिकवेषः ।

 ‘भो देवउळपीठिआए’ इत्यादिः 'एकरस शाडिआए कय्थं अवरस्स मुळ्ळेण’ इत्येतदन्तः प्राकृतवाक्यसन्दर्भ: कपटडिण्डुिकोन्मत्तभ्रमणकतलदुक्तिरूपो व्घर्थः । तस्य हि वक्त्तृवेषानुगुणच्यार्थातिरेकेण मन्त्रसंबद्ध आभ्यन्तरार्थः कश्चिद् वाच्यार्थसारूप्यादिवशात् प्रतीतिपथमवतरन्ननुभूयते । तमेनं व्याख्यास्यामः ।

 भो देवउळेति । भो इति वितर्के । देबकुळपीठिकायां देवकुलस्य शिवालयस्य पीठिकायाम् अधिष्ठाने अलिन्दे इर्त्ययः । मम मोदकमल्लकं मोदका अपूपविशेषाः तघुक्तं मल्लकं पात्रम् । स्वार्थे कन् । ‘भल्लः पात्रे कपोले च मत्स्यभेदे बलीयसि ' इति मेदिनी । बलीयोवाचि वा मल्लशब्द इह लक्षणया प्रशस्ते वर्तते, प्रशस्तं मोदकमित्यर्थः । निक्षिप्य, दक्षिणामाषकान् क्ष्त्रत्विजे दीयमाना थुतिर्दक्षिणा दक्षिणात्वेन लब्धान् हेमळवलन् । गणयित्वा संख्याय । बद्धा, प्रतिनिवृत्तः , अहम् इदानीं मोदकमल्लकं न प्रेक्षे इति बाह्योऽर्थः। देवो राजा महासेनः, तस्य कुलस्य वंशस्य पीठिकायां मालिकायां कीर्त्तिगौरव।द्यधिष्ठानभूतायाम् अर्थाद वासवदत्तायां । मम मोदकमल्लकं प्रियश्रेष्ठम् , अर्थाद् वत्सराजं । निक्षिप्य तस्मिन् दृष्टानुरागा सा तमवश्यं चिन्तयिष्युतीति विस्त्रम्भादर्पयित्वेत्यर्थः । अथवा अर्पितारमानं विज्ञायेत्यर्थः । ‘पीठिका स्यादधिष्ठानं पीठिका माळिका स्मृता" इति किमपि टिप्पणम् । दक्षिणामाषकान् गणयित्वा वत्सराजदत्तानि प्रतिसन्देशवाक्यानि ज्ञात्वा । बद्ध्वा मनसि स्थिरीकृत्य। प्रतिनिवृत्तः अहमिदानीं मोदकमल्लकं मोदकस्य सन्तोषकस्य वासवदत्ताहरणरूपस्य कार्यस्य मृल्लकं निर्वहणसमर्थे पात्रं यौगन्धरायणं मन्त्रार्थं कुतसमयं । न प्रेक्षे इह न पश्यामि । इत्याभ्यन्तरोऽर्थः । विचिन्त्येति । मोदकादर्शनकारणानि तर्कयित्वेत्यर्थः ।