पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 देवी–(क) जं महासेणो. आणवेदि । (निष्क्रान्ता सपरिवारा ।

 राजा–(विचिन्त्य)

र्प्व तावद् वैरमस्यावलेपादानीतेऽस्मिन् स्यात् तु मध्यस्थता मे ।
युद्धक्लिष्टं संशयस्थं विपन्नं श्रुत्वा त्वेनं संशयं चिन्तयामि ॥ १४ ॥

(निष्क्रान्तौ ।)

द्वितीयोऽङ्कः


 (क) यन्महासेन आज्ञापयति ।


 जमित्यादि ।

 पूर्वमिति । पूर्वे तावत् आनयनात् प्राक् । अस्य वत्सराजस्य । अवलेपाद् गर्वात् । मे, वैरं विरोधः । आसीदिति शेषः । अर्थात् तद्विषये । अस्मिन् , आनीते अवजित्योपस्थापिते सति । मे, मध्यस्थता स्यात् तु, पूर्ववैरनिर्यातनाद् उदासीनवृत्तिर्भवन्ती संभाव्यत एव । तुशब्दोऽवधारणे । मम मध्यस्थतायां न्याय्यायां नाहं मध्यस्थः किन्तु स्निग्धवृत्तिर्भवामीत्येतादृशमात्मनि विशेषमाविष्कुर्वन्नाह-- अहं तु , विशेषद्योतकस्तुशब्दः। युद्धक्लिष्टं युद्धपरािखिन्नं । विपन्नं ग्रहणरूपां विपत्तिं प्राप्तम् । एनं वत्सराजं संशयस्थं श्रुत्वा प्रहाररुजाद्रिवशात् जीवेन्नवेति सन्देहस्य विषयभूतं निशम्य । संशयं चिन्तयामि , तजीवितसन्देहं स्मरन्नधिमान् भवामीत्यर्थः । चिन्तिरिह मनोव्यथाकरे स्मरणे वर्तते । स्निग्धचेष्टितं खलु तदेतच्चिन्तनामित्याभिप्रायः । अथवा संशयं चिन्तयामीत्यस्यायमर्थ: – संशयं संशयहेतुं रुजाम् । चिन्तयामि चिकित्सारम्भणैः प्रत्यवेक्षे इति । अभिपायः पूर्ववत् ॥ १४ ॥

 निष्क्रान्ताविति द्वितीयाङ्कपरिसमाप्तिः ॥

द्वितीयोऽङ्कः।