पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 राजा-प्रतिगृहीतं जय मङ्गलम् । (वीणां गृहीत्वा ) इयं सा घोषवती नाम । यैषा,

श्रुतिसुखमधुरा स्वभावरक्ता करजमुखोल्लिखिताग्रधृष्टतन्त्री ।
 क्ष्त्रषिवचनगतेव मन्त्रविद्या गजहृदयानि बलाद् वशीकरोति ॥ १२ ॥

भोः ! समरावजितानां रत्ननामिष्टसम्भोगः प्रीतिमुत्पादयति ।
अर्थशास्त्रगुणग्राही ज्येष्ठो गोपाळकः सुतः ।
गान्धर्वद्वेषी व्यायामशाली चाप्यनुपालकः ॥ १३ ॥

क्कनुखल्वियं सुन्यस्ता भवेत् । देवि । वासवदत्ता वीणामुपक्रान्ता ननु ।

 देवी-—आम ।

 राजा-तेन हि इयमस्यै प्रदीयताम् ।


 प्रतीत्यादि । जयरूपस्य मङ्गलस्य ज्ञापकत्वाज्जयमङ्गलं वीणारत्नम् । यैषेतिक्ष्लोकान्वयि ।

 श्रुतीति । श्रुतिसुखमधुरा श्रुतिसुखा निक्काणेन श्रवणसुखज्जननी मधुरा दर्शनीया च । स्वभावरक्ता स्वभावेन रागाख्यगीतिधर्मवती । करजमुखोल्लिखिताग्रधृष्टतन्त्री करजमुखैर्नखाग्रैर्यद् उल्लिखितम् उल्लेखनम् ऊर्ध्वभागे स्पर्शनं , तेन अग्रघष्टा अग्रे घट्टिना नादर्थे तन्त्री यस्याः स! त्र्क्षषिवचनगता मन्त्रविघेव ऋषयो मन्त्रद्रष्टारः, तद्वाक्याश्रिता मन्त्रविघेत्र स्थिता । यैषा वीणा । बलात् । हठात् । गजहृदयानि , वशीकरोति अवश्यानि वश्यानि करोति ॥ १२ ॥

 भो इत्यादि । रस्नानां श्रेष्ठवस्तूनाम् । इष्टसम्भोग: इष्टजनकर्तृकोऽनुभबः ।

 इष्टजनेष्वपत्यानां प्रधानत्वात् तेषु वीणार्पणार्हतां विमृशति--अर्थेति । ज्येष्ठः सुतः , गोपालकः , अर्थशास्त्रगुणग्राही बार्हस्पत्यौशनसादिराज्यतन्त्रविद्यागुणशः , न तु गीतगुणज्ञ इत्यर्थः । अनुपालकः गोपाळकानुजन्मा मम सुतः । गान्धर्वद्वेषी गीतविद्यायामरतिमान् । द्वेकारः पूर्वस्य लघुत्वं न विदन्ति प्रह्ववत । गान्वर्वदूषीति वा पाठः कल्प्यः । व्यायमशाली चापि व्यायामेन मल्लविद्यया शलितुं वल्गितुं शीलमस्येति तथाभूतश्च । एवञ्च पुत्रौ द्वावपि वीणानर्हविति भावः ।

 क्केत्यादि । कूनुखलु कस्मिन्निष्टजने । इयं वीणा । सुन्यस्ता सुषु निक्षिप्ता । उपक्रान्ता अभ्यसितुमारब्धवती ॥

 आमेति । आमशब्दोऽङ्गीकारे ॥

 नहीत्यादि । इयं वीणा ॥