पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६़१
द्वितीयोऽङ्कः ।

भरतो वंशः॥ दर्पयत्येनं दायाद्यागतो गान्धर्वो वेदः । विभ्रमयत्येनं वयस्सहजं रूपम् । विस्रम्भयेत्येनं कथमप्युत्पन्नोऽस्य पैौरानुरागः ।

 देवी – (कं) अभिळसणीआ वरगुणा । कस्स वामदाए दोसो संवुत्ते ।

 राजा–देवि ! किमिदानीमस्थाने विस्मितासि । पश्य

अग्निः कक्ष इवोत्सृष्टो दहत् कार्त्स्न्येन मेदिनीम् ।
अस्य मे शासनं दप्तं विषयान्तेऽवसीदति ॥ ११ ॥

( प्रविश्य )

काञ्चुकीयः -जयतु महासेनः । यथाज्ञाप्रयुक्तसत्कारं प्रविष्टः शालङ्कायनः । स तु विज्ञापयति--इदं भरतकुलोपभुक्तं वत्सराजकुले द्रष्टयं धोषवती नाम वीणारनम् । महासेनः प्रतिग्राहयितव्य इति । (वीणां दर्शयति ।)


 (क) अभिलषणीया वरगुणाः । कस्य वामतया दोषः संवृतः ।


 अभीति । अभिलषणीयाः स्पृहणीया। वरगुणाः कन्यावगयितनयपुरुषार्हाः गुणाः । भवन्ति , अर्थात् कुळकळावयोरूपप्रजानुरागास्त्वदुक्ताः । कस्य वाभतया कस्य गुणस्य अनभिलषणीयतया । दोषः संवृत्तः , अस्मान् प्रति द्वेष्यस्वरूपो दोषस्तस्य सञ्जातः । अहो अभिलषणीयवरगुणसम्पन्नस्य द्वेष्यत्वमित्यभिप्रायः। 'तस्य वामदाएइति न हृद्यः पाठः ॥

 देवीप्यादि । अस्थाने अविषये ।

 अग्निरिति । कक्षे तृणगुल्मे । उत्सृष्टः क्षिप्तः । अग्निर्व, मेदिनी कर्स्स्न्येन दहत्, भूमण्डले निखिले निरङ्कुशं प्रसरदित्यर्थः । दीप्नं ज्वलितम् ऊर्जितं । भे शासनम् आज्ञा । अस्य विषयान्ते वत्सराजस्य जनपदसीमायाम् । अवसीदति न प्रसरति । सर्वेषु राजसु मम शासनमनुसरत्सु अयमेको लङ्घयतीति मां प्रत्यप्रह्वत्वमेवास्य दूषणमिति भावः ॥ ११ ॥

 जयत्वित्यादि । यदाज्ञाप्रयुक्तसत्कारम् आञाप्रकारप्रयुक्तबहुमानं यथा भवति तथा । द्रष्टव्यं दृष्टिप्रियमित्यर्थः । वीणरत्नं प्रशस्ता वीणा । प्रतिग्रहयेतव्थः प्रतिगृह्णन् प्रयोजयितव्यः । अर्थाद् वीणाम् ॥