पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९
द्वितीयोऽङ्कः ।

 राजा– एहि तावत् ।

 काञ्चुकीयः-अयमस्मि ।

 राजा- वत्सराजदर्शने कश्चिन्नोत्सारयितव्यः ।

शत्रुं पश्यन्तु मे पौराः श्रुतपूर्वं स्वकर्ममिः ।
सिंहमन्तर्गतामर्ष यज्ञार्थमिव संयतम् ॥ १० ॥

 काञ्चुकीयः-यदाज्ञापयति महासेनः । (निष्क्रान्तः ।)

 देवी–(क) बहूणि अम्भुदआणि इमरिंस राअडळे अणुभूदाणि । ण खु अहं इंदिसं पीदिजोग्गं महासेणस्स सुमरामि ।

 राजा–अहमप्येतादृशं प्रीतिविशेषं न श्रुतपूर्वं स्मरामि , यथा गृहीतो वkसराज इति ।

 देवी--(ख) वच्छराओ णं ।

 राजा ---अथकिम् ।


 (क) बहवोऽभ्युदया अस्मिन् राजकुलेऽनुभूताः । न खल्वहमीदृशं प्रीतियोग्यं महासेनस्य स्मरामि ।

 (ख) वत्सराजो ननु ।


 एहि तावदिति । पुनराह्वानमादेशशेषदानार्थम् ॥

 अयामित्यादि ।

 वत्सेत्यादि ।

 शत्रुमित्यादि । स्वकर्मभिः निजापदानैः । यशयै देवतोपहाराय । संयतं । बद्ध्ं, सिंहमिव ॥ १० ॥

 यदित्यादि ॥

 बहूणीत्यादि । प्रीतियोग्यं सन्तोषस्थानम् ॥

 अहमपीति । अहमपि, वत्सराजो गृहीत इति यथा, वत्सराजो गृहीत त्यतो यादृश: प्रीतिविशेष इत्यर्थः । एतादृशं प्रीतिविशेषे एवञ्जातीयं सन्तोषविशेषहेतुं । श्रुतपूर्वे न स्मरामि पूर्वश्रुतत्वेन नाभिजानामि । “ अहमीदृशं प्रियम् ’ इति क्वचित् पाठः ॥

 साकूतं पृच्छति-वच्छेत्यादि ॥

 अथाकिमिति ॥