पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/६८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
प्रतिज्ञायौगन्धरायणे सव्याख्याने

राजा(सहर्षम् )किमाह भवान् ।

काञ्चुकीयः-तत्रभवतामात्येन शाळायनेन गृहीतो वत्सराजः ।

राजा-उदयनः ।

काञ्चुकीयः--अथकम् ।

राजा --शतानकस्य पुत्रः ।

काञ्चुकीयः--दृढम् ।

राजा-सहस्रनीकस्य नप्ता ।

काञ्चुकीयः--स एव।

राजा--कौशाम्बीशः।

काञ्चुकीयः सुव्यक्तम् ।

राज “गन्धर्ववित्तकः ।

काञ्चुकीयः--एवं ब्रुवन्त ।

राजा-वत्सराजो ननु ।

काञ्चुकीयः -अथाकिं , वरसराजः।

राज -अथ किमुपरतो यौगन्धरायणः।

कञ्चुकीयः-न खलु , कौशाम्ब्य किल ।

राजा--यद्येवं , न गृहीतो बंसराजः ।

काञ्चुकीयः-श्रद्धत्तां महासेनः।


 उपजातहषऽप्यसंभावनया पृच्छति-किमस्यादि ।।

 तत्रभवतेश्यादयस्रयोदश्च संवादा असंभावनानिमत्कंधुनःपुनःप्रक्षतदुत्तर रूपाः । गान्धर्मवितकः गीतकळायां लोकविदितः ।।

 जीवति यौगन्धरायणे वत्सराजप्रहणमसम्भवीति बुद्धया पुनः पृच्छति _

 अथेत्यादि । उपरतः प्रमीतः । ।

 न खल्विति । न खलु नैवोपरतः । कौशाम्ब्य वखराजधान्यां । वर्तत इति शेषः । किळेति वार्तायाम् ।।

 यद्येवमित्यादिना ग्रहणाविस्रम्भं पुनशविष्कृतमपनेतुमाह--अङ्गतामि त्यादि । श्रद्धत्तां विश्वञ्चितु ।।