पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५
द्वितीयोऽङ्कः ।

 राजा--किं वत्सराजः ।

 काञ्चुकीयः-प्रसीदतु प्रसीदतु महासेनः। प्रियवचनानिवेदनत्वरया क्रमविशेषो नावेक्षितः ।

 राजा–प्रियवचनमिति ।

 देवी-(उत्थाय) (क) जेदु महासेणो ।

 राजा--(सहर्षम् ) प्रियवचनपरिहार्या हि देवी । आस्यताम् ।

 देवी--(ख) जे महासेणो आणवेदि । (उपविशति ।)

 राजा–उत्तिष्ठोत्तिष्ठ, स्वैरमभिधीयताम् ।

 काञ्चुकीयः--(उत्थाय) तत्रभवतामायेन शालङ्कायनेन गृहीतो वत्सराजः ।


 (क) जयतु महासेनः ।

 (ख) यद् महासेन आज्ञापयति ।


पात्रतां याती,ति प्रश्नेन सह दैवादव्यवधानसंघटितं ’ वत्सराजः पात्रतां याति “ इत्यर्थबोधनेन तस्यैव प्रक्षस्य सदृशयमुत्तरमिव भूत्वा वासवदत्तावत्सरजयोर्विवाहाव श्यम्भावित्वसूचकं किमपि शुभनिमित्तं सम्पन्नमिति बोद्धव्यम् ।

 किमित्यादि ॥

 निसर्गशत्रोर्वसराजस्य केवलनामग्रहणेन कुपितमिव राजानं मत्वा प्रसादयन्नह--प्रसीदत्वित्यादि । क्रमविशेषः वत्सराजपदोच्चारणसंबद्धोः विशिष्टः क्रमः । स च ‘ गृहीतो वत्सराजः, इत्येवंरूपो वक्ष्यमाणः । एतदनन्तरं ‘भूमौ पतति ’ इत्यपेक्षितम् , अग्रे काञ्चुकीयस्योत्थानवचनात् ॥

 प्रियवचनमितीति । किं ब्रवीषीत्यर्थगभ्यम् ॥

 प्रियवचनस्य राजैकश्राव्यत्वबुद्धया ततो निर्गमनार्थमुत्थायामणाङ्कं समुदाचारमाचरति-जेडु इत्यादि ॥

 प्रियेत्यादि । इह नञर्थकाक्का देवी प्रियवचनपरिहार्यो न भवतीत्यर्थः । आस्यताम् , अर्थात् प्रियवचनं क्ष्रोतुम् ॥

 जामित्यादि ॥

 उत्तिष्ठेत्यादि । स्वैरं निश्शङ्कम् ॥

 तत्रभवतेत्यादि ॥