पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 देवी–(क) किं दाणि विथरेण । जहिं दइअ ण सन्तप्पामो , तहिं दीअदु ।

 राजा—अहो महान् खलु लीलाभिहितो दुःखविस्तर इदनीं पश्चादुपालम्भनं श्रोतुम् । तस्माद् देवी तावन्निश्चयं गच्छतु । श्रूयताम् , अस्मत्सम्बद्धो मागधः काशिराजो वाङ्गः सौराष्ट्र मैथिलः शूरसेनः । एते नानार्थैर्लोभयन्ते गुणैर्भां कस्ते वैतेषां पात्रतां याति राजा ॥ ८ ॥

(प्रविश्य)

काञ्चुकीयः-वत्सराजः ।


(क) किमिदानीं विस्तरेण । यत्र दत्त्वा न सन्तप्यामहे, तत्र दीयताम् ।


 वरनिश्चयभारं भर्त्रार्प्यमाणं स्वीकर्तुमनिच्छन्ती तस्मिन्नेवातिसृजति-----

किभित्यादि । दीयताम् अर्थाद् भवता। दानीयपात्रनिर्धारणभारस्त्वय्येवार्पित इति भावः ॥

 अहो इति । अहशब्देः क्ष्लाघायाम् । सा च संक्षिप्ताख्यानकौशलविषया । महान् खंलु गुरुः खळु । 'दुःखविस्तरः वरनिर्धारणविषयः श्रमभार: । इदानीं लीलाभिहितः मदेकवहनीयतया सुखेनोक्तः । अर्थाद् भवत्या । अस्येदृशे वचने सुखं , वहने तु श्रम इति भावः । ईदृशेन वचनेनात्भनः कालान्तरे संभाव्यमनिष्टं फलमाह--पश्चाद् उपालम्भनं श्रोतुं , सम्प्रति मन्निर्धारितो जामातास्मद्दुहितरि दैवाद् यदि जातु बामवृत्तिर्भवेत् , तथाविधे भाविनि कर्हिमश्चित् काळे त्वदप्युक्तं मन्निन्दावचनं मयाकर्णयितुम् । लीलाभिहित इत्यनेन सम्बन्धः । तस्मात् उक्तदुःखविस्तराङ्गीकारस्य मदनिष्टहेतुत्वात् । देवी तंवत् देव्येव , न त्वहम्। निश्चयं गच्छतु ।

 कन्यार्थिनां राज्ञां जनपदसंबन्धश्चिद्धानि नामानि निर्दिशन् पृच्छति--- अस्मादित्यादि । मगधकाशिवङ्गसौराष्ट्रभिथिलाशूरसेनशब्दा जनपदाविशेषवचनाः | मिथिलेति विदेहोपलक्षणम् । नानार्यै: बहुविधप्रयोजनैः । गुणैः कुलशीलवयोरूपविद्यादिभिः । एतेषां मागधाद्वीनां राज्ञां मध्ये । ते त्वपक्षे । पात्रतां कन्यादानपात्रत्वम् ॥ ८ ॥

 वत्सराज इति । वत्सराजगृहणलक्षणं प्रियवृत्तान्तं निवेदयितुं प्रविष्टस्य काञ्चुयस्य निवेदनसंभ्रमवशात् झटिति मुखनिर्गतमिदं पदम् । तच्च ‘को वा _