पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
द्वितियोऽङ्कः ।

देवी–(क) इदाणिं पि ण दाव ।

राज

अदतेत्यागता लज्जा दत्तेति व्यथितं मनः ।
घर्मस्नेहान्तरे न्यस्ता दुःखिताः खलु मातरः ॥ ७ ॥

सर्वथा श्वशुरपरिचरणसमर्थे वयसि वर्तते वासवदत्ता । एष चापरः काशिराजोपाध्याय आर्यजैवन्तिरद्य दैत्येन प्राप्तो विलोभयति मां चारित्रेण । (आत्मगतम्) न किञ्चिदाह। अश्रुपूर्वा व्याकुळा कथं निश्चयं गमिष्यति । भवतु , निवेदयाम्यस्यै। (प्रकाशम् ) क्ष्रूयन्तेऽस्मत्रसम्बवप्रयोजनायागता राजानः ।


(क) इदानीमपि न तावत् ।


इदाणिमिति । इदानीमपि विवाहार्हेऽस्मिन् कालेऽपि । न तावत्, निक्ष्चयो गम्यत इत्यनुवर्तते । इह काक्का अनिश्चयस्यानिष्टता प्रकाश्यते ॥

 अदत्तेति । अदत्तेति वराय न प्रतिपादितेति हेतोः । ळज्जा , काळे कन्यादानं हि धर्मः , स नानुष्ठित इति तव व्रीड़ा भवतीत्यर्थः । अत् एवानिक्ष्चयं प्रति तव प्रद्वेष इत्यभिप्रायः । दत्तेति दानपक्षे इत्यर्थः । मनः तव हृदयम् । व्ययितं दुहितृविरहचिन्तया सञ्जातव्यथं भवति । अत एव नैष दारिकाया विवाहकाळ इति त्वयोक्तमित्यभिप्रायः । सेयं तव हृदयस्य दोलायमानता युक्तेति समर्थयितुं सामान्यन्यायमाह-मातरः कन्याजनन्यः। धर्मस्नेहान्तरै धर्मस्नहयोरन्तराले । न्यस्ताः निवेशिताः सत्यः । दुःखिताः खलु सञ्जातदुःखा हि भवन्ति , धर्मस्नेडान्तरानुरोधं प्रति ल्किश्यन्त इत्यर्थः ॥ ७ ॥

 सर्वथेत्यादि । अपरः पूर्वगतेभ्यस्ततद्राजदूतेभ्योऽन्यः। चारित्रेण मां विलोभयति , काशिराजसद्वत्तेन क्षावितेन माम् आवर्जयति । एतेन काशिराजाय कन्यायाः प्रदानं मे रोचते , तवात्राभिप्रायं ज्ञातुमिच्छामीति सूचितम् । अत्रोत्तरमरूभमन् आत्मनि चिन्तयति-नेत्यादि । अश्रुपूर्वा दुहितृप्रदानप्रस्तावे पूर्वे बाध्यं मुञ्चन्तयिथुः। भवतु यथा तथा वास्तु । निवेदयामि विशष्यं विज्ञापयामि । भूयन्त इत्यादि । भूयन्ते , दूतमुखात् । आगताः दूतद्वारेण याचितुमुपस्थिताः । यद्यपि दूतानामेवागमनं जातं, तथापि राजार्थमेव तदिति राज्ञासु आगवत्वोप्रचारः ॥