देवी–(क) महासेणं वि किं वि विण्णविदुकामा हि ।
राजा–किमितेि ।
देवी–(ख) आअय्यं इच्छामि त्ति ।
राजा –उपस्थितविवाहकाळायाः किमिदानीमाचार्येण । पतिरेवैनां शिक्षयिष्यति ।
देवी–(ग) हो एसो दाणि मे दारिआए काळो।
राजा–भोः ! नित्यं प्रदीयताभित्यस्मानुपरुध्य किमिदानीं सन्तप्यसे ।
देवी–(घ) अभिप्पेदं मे पदाणं । विओओ मं सन्तावेदि । अह कस्स उण दिण्णा ।
राजा--न तावन्निश्चयो गम्यते ।
(क) महासेनमपि किमपि विज्ञापयितुकामास्मि ।
(ख) आचार्यमिच्छाभीति ।
(ग) हम् एष इदानीं मे दारिकायाः कालः ।
(घ) अभिप्रेतं मे प्रदानम् । यियोगो मां सन्तापयति । अथ कस्मै पुनर्दत्ता ।
महासेणं वीत्यादि ॥
किमितीति ॥
आअय्यमित्यादि । आचार्ये वीणोपदेशदेशिकम् ॥
उपस्थितेत्यादि । उपस्थितविवाहकालायाः सन्निहितपरिणयावसरावाः ॥
इमिस्यादि । हामित्यसम्मतौ । सा च विवाहकाळासन्नत्वविषया । दारिकायाः वत्सयाः। एष काळ इति नञर्ये काकुः । नैष काल इत्यर्थः ॥
भो इत्यादि ! नित्यम्, उपरुध्य निर्बध्य । इदानीं किं सन्तप्यसे दानायसरे किं दूयसे ॥
अभीत्यादि । अभिप्रेतम् इष्टम्। वियोगः प्रदानानन्तरभाबी दुहितृविरहः।
पृच्छति-अथेत्यादि ॥
न तावदित्यादि । निश्चयः बरनिर्णयः ॥