(वतः प्रविशति देवी सपरिवार ।
देवी–(क) जेदु महासेणो ।
राज - आस्यतम् ।
देवी–(ख) जं महासेणो आणवेदि । (उपविशतेि । )
राजा-वासवदता क ।
देवी--(ग) उत्तराए वेदाळिआए सआसे वीणं सिक्खिदुं णारीअं । गआ आस ।
राजा- कथमुत्पन्नोऽस्या गान्धर्वेऽभिलाषः ।
देवी--(घ) केण वि किळ उग्घादेण " कञ्चणमाळं वीणाजोग्गं करअन्ति पेक्खिअ सिक्खिदुकामा आसी ।
राजा -सदृशं बाल्यस्य ।
(क) जयतु महासेनः ।
(ख) यन्महासेन आज्ञापयति ।
(ग) उत्तराया वैतालिक्याः सकाशे वीणां शिक्षितुं नारदीयां गतासीत् ।
(घ) केनापि किलोद्धातेन काञ्चनमालां वीणायोग्यां कुर्वतीं प्रेक्ष्य शिक्षितुकामासीत् ।
शयः । व्र तथापि । अस्य ये सचिवाः यौगन्धरायणादयः। सर्वे ते , यत्नमास्थाय
स्थिताः, उक्त्तलीछाप्रसक्तिपरिहारार्थम् उद्यममाश्रित्य स्थिता:। अतः कथमस्मदीयच्छङ्कप्रयोगः फलिष्यतीति सन्देहोऽप्यस्तीत्यभिप्रायः॥ ६ ॥
जेड इत्यादयक्षत्वारः संवादाः ॥
उत्तराए इत्यादि । उत्तरायाः तदाख्यायाः वैतालिक्याः वेणुवीणादिवादनवृतेः स्त्रियाः । ‘आख्यातोपयोगे ' इथपादानत्वात् पञ्चमी । नारदोयां वीणां शिक्षितं , महतीनामानं वीणाविशेषम् अभ्यसितुम् ॥
कथमित्यदि । गान्धर्वे गीतकळायाम् ॥
केणवीत्यादि । उद्धातेन कार्यस्योपक्रमेण । काञ्चनमालां तदाख्यां सखीम् ।
चीणायेग्यां कुर्वतीं वीणाभ्यासं कुर्वतीम्। ‘योग्याभ्यासः परिचयः' इति यादवः ॥
सदृशमिति । सदृशम् अनुरूपम् । अर्थाद् वीणाशिक्षणम् ॥