पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 व्यक्तं न तावत् समुपैति तस्य दूतो वधूत्वे विहिता हि यस्य ।

 ततो नरेन्द्रेषु गुणान् नरेन्द्रो न वेत्ति जानन्नपि तत्प्रतीक्षः ॥ १ ॥ अये संलीयमानान्तःपुरचरः सनाथीभवत्ययं देशः । अथे अयं महासेनः । य एषः

 दूर्वाकुरस्तिमितनीलमणिप्ररोहैः पीताङ्गदैः परिगतैः परिणीवितांसः ।

 अस्माद् घनात् कनकताळघनैकदेशान्निर्धावितः शरवणादिव कार्त्तियः ॥

(निष्क्रान्तः ।)

विष्कम्भकः।


स्वनिरासे । अत्र कन्याप्रदाने विषये, दैवम्, अधिकृतं प्रभविष्णु, तदनुसारेण तु कन्यापितुर्बुद्धिः प्रवर्तत इत्यभिप्रायः ।

 व्यक्तमिति । यस्य हि वधूस्वे विहिता , यस्यैव वरस्य वधूभावे दैवेनं सङ्कल्पिता । अर्थात् कन्या । तस्य , दूतः , न तावत् समुपैति नैवायाति । समुपेतदूतमध्ये स नास्तीत्यर्थः । व्यक्त्तं नूनम् , अयमर्थोऽनुमीयते । तत्र लिङ्गमाह. -ततः तथाविधवरदूतानागमनात् । नरेन्द्रः प्रद्योतः । तत्प्रतीक्ष्च तथाविधवरदूतं प्रतीक्षमाणः सन् । नरेन्द्रेषु सम्प्रेषितदूतेषु राजसु । गुणान् वरसम्पत्तीः । जानन्नपि न वेत्ति, गृह्णन्नपि पर्याप्तत्वेन न मन्यते । तस्य दूतवेत् समुपैति, तद्तान् गुणान् पर्याप्तान् मन्यमानो वरनिश्चयमधिगच्छेदिति भावः ॥ १ ॥

 अथे इत्यादि । अये इति संभ्रमे । सनाथीभवति नाथवान् भवतीत्यर्थः । अन्तःपुरचराणां स्वच्छन्दचारपरिहारेण क्काचित् संलीयावस्थानन्नाथसान्नियमस्मिन् देशेऽनुमीयत इति वाक्याभिप्रायः । य एष इति क्ष्लोकान्वयि ।

 दूर्वेति । दूर्वाङ्कुरस्तिमितनीळमणिप्ररोहै : दूर्वाङ्कुरा इव स्तिभिताः स्निग्धाः नीदमणिप्ररोहाः नीलरत्नाङ्कुराः येषु तैः । मणिप्रदीप्रैरिति पाठे नीलमणिना प्रकर्षेण दीप्तिमद्भिरित्यर्थः । परिगतैः परितो पीतवर्णैः केयूरैः, अर्थात् स्वर्णाङ्गदैः परिणीवितांसः परिणीवितौ स्थूलितौ परिबृंहणं प्राप्तावित्यर्थः, अंसौ स्कन्धौ यस्य सः । य एषः , घनात् सान्द्रात् । अस्मात्, कनकताळवनैक देशात कनकञ्चम्पकः तालः तृणराजः तदुभयबहुलस्थ वनस्य एकदेशाद् भागात् । शरवणात् कार्त्तिकेय इव, गुन्द्रसंज्ञतृणस्तम्बवनात् रजन्मा देव इव । निर्धावितः