पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अथ द्वितीयोऽङ्कः

(ततः प्रविशति काञ्चुकीयः )

 काञ्चुकीयः- आभीरक ! आभीरक ! गच्छ महासेनवचनात् प्रतीहाररक्षकं ब्रहि--एष काशिराजोपाध्याय आर्यजैवन्तिरथ दौत्येन प्राप्तः । अस्य सामान्यदूतसत्कारं पृष्ठतः कृत्वा सुखमिव निवेश्यताम् । यथा चातिथिसत्कारं जानीयात् तथा प्रयतितव्यम् इति । भोः ! एवं नामाहन्यहनि गोत्रानुकूलेभ्यो राजकुलेभ्यः कन्याप्रदानं प्रति दूतसम्प्रेषणा वर्तते । न खलु महासेनः कञ्चिदपि प्रत्याचष्टे , न चाप्यनुगृहणीते । किसुखल्विदम् । अथवा दैवमत्र कन्यापदानेऽधिकृतम् । कुतः


अथ द्वितीयोऽङ्कः ।

 अथ द्वितीयोऽङ्के प्रद्योतस्य स्वदुहितृवासवदत्ताप्रदानं प्रति पत्न्या सह चिन्तनं , वनगृहीतानीतवत्सराजविजयाभ्युदयलाभानन्दः , वत्सराजजामातृभावकामनया कन्याप्रदानकलन्याक्षेपकल्पनं , सत्कारयुक्तमन्तःपुरे वत्सराजावरोधनमिति प्रतिपाघं वस्तु । तत्रादौ प्रद्योतप्रवेशसूचनार्थे विष्कम्भकं रचयितुं तदनुरूपस्य मऽयमपात्रश्य कञ्चुकिनः प्रवेश माह – ततः प्रविशतीत्यादि ।

 अ प्रविष्टमेव कमपि भृत्यं राजाज्ञया कार्यविशेषे नियुङ्क्त्ते-आभीरकेस्यादिना । विप्रदग्बष्ठयां जात आभीरकः । तज्जातिभवः कश्चिद्। भृत्यकर्मण्यधिकृत द्रह संबोध्यते, आभीरकसंज्ञ एव वा कश्चित् । महासेनवचनात् महासेनस्य प्रद्योतस्य शासनात् । दौत्येन दूतभावेन , ब्राह्मणादित्वात् ष्यञ् । सामान्यदूतसत्कारं, पृष्ठतः कृत्वा , अनादृत्य अपहाय , अर्थाद् विशिष्टदूत सत्कारं कृत्वा । अथवा दूतस्य पश्चाद्भागे साधारणदूतबहुमानम् अनुचरपुरुषप्रेषणादिरूपं कृत्वा । जानीयात् अर्थादतिथिः , महासेन वा । भो इत्यतः प्राक् 'किं ब्रवीषि तथेति’ इत्याकाशभाषितं मातृकासु नोपलभ्यते । नूनमनतिप्रयोजनत्वाद् ग्रन्थे तन्न निबद्धमिति बोद्धव्यम् । अहन्यहनि प्रतिदिनम् । ‘नित्यवीप्सयोरि ’ति द्वित्वम् । गोत्रानुकूळेभ्यः गोत्रेण अनुकूलेभ्यः भिन्नगोत्रेभ्य इत्यर्थः, स्वकुलमुंबन्धानुगुणेभ्यो वा । ‘कञ्चिदपि दूतमुखेन कन्यायाचितारम् । खलु प्रस्थाचष्टे न निराकरोति--'कन्यां न दास्ये’ इति । न चापि अनुगृहीते न च संभावयति--'कन्यां ते द्रास्ये ’ इति । इदं किन्नुखलु, अनिश्चयावस्थानमयुक्तमित्यर्थः । अथवेत्ययुक्त-