पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
प्रथमोऽङ्कः ।

 उन्मत्तसदृश वेष धारितस्तेन साधुना ।

 मोचयिष्यति राजानं मां च प्रच्छादयिष्यति ॥ १७ ॥

(प्रविश्य)

 प्रतीहारी -(क) अय्य ! भट्टिमादा आह—इच्छामि मे पुताअं पेक्खिदुं त्ति ।

 यौगन्धरायणः—अयमयमगच्छामि । आर्य ! शान्तिगृहे मां प्रतीक्षस्व ।

 ब्राह्मणः बाढम् । (निष्क्रन्तः ।)

 यौगन्धरायणः---हंसक ! विश्रम्यतामिदानीम् ।


 (क) आर्य ! भर्तुमाताह—इच्छामि मे पुत्रकं प्रेक्षितुमिति ।


त्यथोप्यं वा । ग्रहणकार्यं सद्योदृष्टमाह - मे रूपम् अन्यदिव पूर्वरूपाद् भिन्नमिव, कथं संवृत्तं सञ्जातम् । अहो परिच्छदविशेषस्पर्शमहिमेत्यभिप्रायः। स्वीयपूर्वरूपावच्छादप्रत्ययादाह – स्वामिसन्निकर्षमेव स्वाम्यन्तिकमेव । गतोऽस्मि, गमनस्य भाविनो भूतत्वाख्यानं सुखसाध्यवद्योतनाय । द्वैपायनपारिच्छदच्छन्नरूपं मां शत्रुपुरे चरन्तं न कोऽपि ज्ञास्यतीत्याभिप्रायः । इदानीम् अस्मिन्नवसरे । मम उपदेशार्थमिव “ इमान् परिच्छदान् धारयन् रिपुनगर्यामकुतोभयं सञ्चरे'त्युपदेशायेव । उत्सृष्टाः , अर्थाद भगवता परिच्छदाः । इह बादरयणेन वत्सरजं प्रति स्वपुत्रपाण्डुवंश्यस्वस्त्रेहात् तदभ्युदयादेशनं तत्कार्यप्रवृत्तयौगन्धरायणधरणयोग्यस्वीयपरिच्छदविशेषप्रसादार्पणं च कुतमिति बोद्धव्यम् ।

 उन्मत्तेत्यादि । उन्मतक्षद्दशः उन्मत्तानुरूप: । तेन खधुना तापसेन । राजानं, मोचयिष्यति बन्धमुक्कं करिष्यति । कुत इति चेदाह -मां च प्रच्छादयिष्यति । चशब्दो हेतौ, यस्मान्मां छन्नस्वरूपं करिष्यति तस्मादित्यर्थः । मोचनसाधकोपायप्रयोगानुकूळात्मप्रच्छादनकर्तरि वेषे मोचनकर्तृत्वमिहोपचरितं द्रष्टव्यम् ॥ १७ ॥

 अच्येत्यादि । पुत्रकम् अर्थाद् यौगन्धरायणम् ॥

 अयमित्यादि । यान्तिगृहे मां, प्रतीक्षस्व प्रतिपालय । स्वामिमातृदर्शनानन्तरं तत्र सन्निधाय त्वां संवादशेषेण सम्भावयितुमिच्छामस्याभिप्रायः ।

 बाढमिति । तथास्त्विति कचित् पाठः ॥

हसनंत्यादयश्चत्वारः संवादाः ।