पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/५०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८
प्रतिज्ञायौगन्धरायणे सव्याख्याने

(नेपथ्ये)

(क) हा हा भट्टा !
यगन्धरायणः
एष शोकप्रतीकारो यथाशक्ति निवेद्यते ।
एतत् स्त्रीभिरसमर्थं मन्त्रिणामनुवर्धते । १५५

(प्रविश्य)

प्रतीहारी -(ख) अय्य ! भट्टिमादा ।

(क) हा हा भर्तः !
(ख) आर्य ! भर्तुमाता ।

मां, पार्श्वतः स्वपावें । द्रक्ष्यात । एतावता चैतदुक्तं भवति--अहं वेषान्तरप्र
च्छन्नरूपो भूत्वा रिपुनगरादौ स्वाभिना समागन्तुं, प्राणपरित्यागेनापि स्वमनम -
नुवर्तितुं, कपटोपायप्रयोगेण श्घ्रहस्तात् स्वामिनं मोचयितुं च बद्धपरिकरोऽस्मी
ति । इह ‘ वञ्चयित्वाघिगतराज्य ’ इति क्वाप्रत्ययोऽधिगमक्रियापेक्षा वञ्चनाक्र-
यायः पूर्वकालस्वमाश्रिस्य कृतः । यद्यपि वञ्चनकर्तृत्वं यौगन्धरायणस्य, न त्वधि
गमकर्तुः स्वामिनः; तथापि यौगन्धरायणेन स्वनिष्ठमेव तत् स्वामिन्यारोपितमौद्ध
त्यपरिहारायेति कृत्वा क्रिययोः समानकर्तकस्वोपपतिः ॥ १४ ॥
हाहेति । मर्तः ! इदं श्रुतभर्तृवृतान्तस्य बीजनस्य भर्तविषयं शोकाभि
संबोधनम् ।
एष इति । स्त्रीभिः एषः ‘हा हा भर्तः’ इति परिदेवितरूपः । यथाशक्ति
शोकप्रतीकारःस्वशक्तिमनतिक्रम्य शोकप्रतिक्रिया में निवेद्यते प्रकाश्यते । इयमेव
हि शोकस्य प्रतिक्रिया स्त्रीभिः कर्तुं शक्या, यद् बन्धुजनं विपनं संस्मरन्त्य उच्चै
विलपन्ति । सेयं श्रीभिः सद्य एवारब्धा, मया तु शक्या न कापि प्रतिक्रियारब्धेति
तदारभ्भं प्रत्युत्सुक्यं वक्तुरिह द्योत्यते । परिदेवितमिदं नृणामारमीयः योकप्रती
कारो न केवलं, किन्तु मन्त्र्ययशःप्रसरहेतुरपीस्याह—एतत् इहेति परिदेवितम् ।
त्रीभिःमन्त्रिणाम्, असमर्ये ऽनुवर्यते, अमात्यानाम् अनागतविधानाश
तत्वम् अनुकीर्यते । स्वामिविपदप्रकाशनद्वारेण मन्त्र्यसामथ्र्यप्रकाशके हाहेति परि
देविते त्रकर्तृके मन्त्र्यसामर्थानुवर्णनतादात्म्योपचरः ॥ १५ ॥
अय्येत्यादि । ।