पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
प्रथमोऽङ्कः ।

 हंसकः–(क) बार्ह ।

 यौगन्धरायणः--पुरुषान्तरितं मां द्रक्ष्यति स्वामी, रिपुनृपनगरे वा बन्धने वा वने वा समुपगतविनाशः प्रेत्य वा तुल्यनिष्ठम् । जितमिति कृतबुद्धिं वञ्चयित्वा नृपं तं पुनरधिगतराज्यः पार्श्वतः क्ष्लाधनीयम्।


 (क) बाढम् ।


स्वाम्यन्नस्यानुभूतराजबहुमानस्य स्वयमेव प्रतिक्रियां कर्तुमर्हस्य सतो ममातादृशस्येव स्वामिविपत्प्रतीकारप्रवर्तनार्थे दर्शनमेव तावत् स्वामिना नापेक्षणीयम् । अथापि यद्यपेक्ष्यत इति ॥

 दर्शनपेयायाः सन्दिग्धत्वं यदिपदसूचितं निराकर्तुमाह-बाढमिति अङ्गीकारे । द्रष्टव्यं मन्यत इत्यत्र विषये तव । सन्देहो मास्स्विस्याशयः ॥

 स्वामिसम्भावनाविशेषसमूद्दीपिताद् भक्तिदुःखरिपुविषयामर्षव्यतिकरकषायादुत्साहादाह--पुरुषान्तरितमिति । इदं क्ष्लोकान्वयि ॥

 रिपुनृपेति । स्वामी, पुरुषान्तरितं पुरुषान्तरमिवाचरितं, परिगृहीतान्यपुरुषवेषमित्यर्थः । आचाराक्किबन्तात् कर्तरि क्त्तः । एतेन कार्यसिद्ध्युपायानां प्रच्छन्नप्रयोगाध्यवसायमात्मनः सूचयति । मां, रिपुपनगरे वा स्वाबरोधस्थानभूते शत्रुभूपपुरे वा । बन्धने वा बध्यतेऽत्र निगलेनेति बन्धनं कारागृहं, तस्मिन् वा । रक्षिगुतेऽपीत्यार्थम् । वने वा अरण्ये वा । इदं कथमपि बन्धनात् प्रच्युत्य लज्जावशाद् वननिलयनपक्षे । द्रक्ष्यति, लृटा दर्शनावश्यम्भावो बोध्यते । भवेदेवं, यदि स्वामी महस्यस्मिन् सङ्कटे प्राणान् धारयति; यदि न धारयति, तदा कुत्र दर्शनं भविष्यति ? तत्राह--समुपगताविनाशः दुःखातिभारात् प्रमीतः । स्वामी, तुल्यनिष्ठं समानावस्थं समुपगतविनामित्यर्थः । मां, प्रेत्य वा परलोके वा । प्रेत्यामुत्रशब्दौ पर्यायवाचकौ, ‘ प्रेत्यामुत्र भवान्तरे ’ इति यादवात् । द्रक्ष्यति । एतच्च विपरीते देवे । अनुकूलदैववशात् स्वीयच्छन्नोपायप्रयोगसाफल्यपक्षे त्वाह-जित . मिति कृतबुद्धेि, ‘वत्सराजच्छलनेन मम जयः सिद्ध’ इति मन्यमानम् । जितशब्दो भाबक्तान्तः । तं, नृपं राजानं प्रद्योतम् । वञ्चयित्वा उपायैदछछयित्वा । अधिगतराज्यः पुनः प्राप्तराज्यस्तु । पुनरिति तुशब्दार्थे पक्षान्तरे । "पुनरप्रथमे मतम् ! अधिकारे च भेदे च तथ पक्षान्तरेऽपि च ॥ इति मेदिनी । स्वामी क्ष्लाघनीयं शत्रुवञ्चनपूर्वकस्वामिराज्यप्राप्त्यनुकूलाचरणधन्यतया क्ष्लाघितुं योग्यम् ।