पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 यौगन्धरायणः -मा तावत् ) सर्वसचिवमण्डलमतिक्रम्यैको यौगन्धरायणो द्रष्टव्य इत्याह ।

 हंसकः--(क) अहइं ।

 यौगन्धरायणः~तेन हि अनर्हप्रतिक्रियमनिर्विष्टभर्तृपिण्डमनुषकृतराजसत्कारं यदि खलु मां द्रष्टव्यं मन्यते स्वामी।


 (क) अथकिम् ।


 मा तावादिति । माशब्द आशङ्कायाम् । त्वदुक्तमाशङ्कनीयमेव, न तु सहसा सम्प्रतिपत्तियोग्यमिन्यर्थः । आशङ्काबीजं च बहुखचिवान्तरानादरः । अत एव तत्प्रामाण्यनिश्चयार्थम् आशङ्काकारणोपन्यासगर्भ पृच्छति - सर्वेत्यादि । आहेति काकुः ॥

 अथकिमिति अभ्युपगमे, त्वामेवैकं भर्ता द्रष्टव्यमाह, न तु सचिवमपरं कञ्चिदित्यर्थः ॥

 इदानीं दर्शनार्हतापेक्षितसचिवगुणसम्पद्विरहमात्मनः समर्थयन् हंसकोक्तेऽर्थे तन्मूलात् प्रामाण्यसन्देहात् पुनरपि पृच्छति--तेनहीति । तेनहि तर्हि । अनर्हप्रतिक्रियम् अर्हप्रतिक्रियारहितम् अनागतायामेव विपदि योग्यां प्रतिक्रियामकृतवन्तमित्यर्थः । अत एव, अनिर्विष्टभर्तृपिण्डम् अनिर्विष्टः कुत्सितं यथा भवति तथा उपभुक्तः भर्तृपिण्डः स्वाम्यन्नं येन तम् । पूर्वसंविहितभर्तृविपत्प्रतिक्रियत्वे हि सुनिर्विष्टभर्तृपिण्डोऽभविष्यमित्यभिप्रायः । अत एव च अनुपकृतराजसत्कारम् अनुपकृतः कुत्सितं यथा भवति तथा उपयुक्तः राजसत्कारः स्वामिकर्तृका पूजा येन तम् । पूर्ववदभिप्रायः । उभयत्र कुत्सार्थनञ्समासः । एतावता स्वामिनं प्रति निजकृल्याननुष्ठानदोषजुगुप्सनीयदर्शनत्वमात्मन: सूचितम् । मां द्रष्टव्यं द्रष्टुं योग्यं । यदि खलु मन्यते यदिशब्दः संभावनायां, मन्यत इति काकुः मन्यते किमित्यर्थः ।

 अपरा व्याख्या--स्वामी अनईप्रतिक्रियम् अनहो प्रतिक्रिया यस्य तंविनैव चोदनया स्वयमेव प्रतिक्रियामारब्धुमनर्हमित्यर्थः । अनिर्विष्टभर्तृपिण्डम् अभुक्तस्वाम्यन्नम् । अनुपकृतराजसत्कारम् अननुभूतस्वामिबहुमानं । मां, द्रष्टव्यं यदिं खलु मन्यते दृष्ट्वा प्रतिक्रियायां प्रवर्तयियां मन्यते चेदित्यर्थः। इह विशेषणपदेषु मुख्यार्थबाधोन्मीलितया विरोधिलक्षणया पर्यवसित एोऽभिप्रायः –भुक्त्त-