पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
प्रथमोऽङ्कः

 हंसकः--(क) अय्य ! अत्थि , पदक्खिणीकरअन्तो भट्टारं अन्तज्जळावगाढए दिट्टिए बहुकं सन्ददृकामेण विअ हि भट्टिणा उत्तो--गच्छ जोअन्ध । (इस्यर्धोक्ते तिष्ठति ।)

 यौगन्धरायणः--स्वैरमामधीयतां स्वामिवाक्यमेतत् ।

हंसकः-(ख) जोअन्धरअणं पेक्खेहि ति ।


 (क) आर्य ! अस्ति , प्रदक्षिणीकुर्वन् भर्तारमन्तर्जलावगाढया दृष्ट्या बहुकं सन्देष्टुकामेनेवास्मि भर्त्रोक्तः गच्छ यौगन्ध ।

 (ख) यौगन्धरायणं प्रेक्षस्वेति ।


तीत्यभिप्रायः । चित्रे दर्पे च विस्मय “ इति यादवः । ‘आत्मा पुंसि स्वभावे च प्रयत्नमनसोरपि । धृतावपि मनीषायाम् ’ इति मेदिनी । रमणीयमिति करणे ऽधिकरणे वा कृत्यप्रत्ययः रमन्तेऽनेनास्मिन् वेति त्र्युत्पत्त्या । विकल्पं परिसमाप्य पृच्छति – अथेत्यादि । मामन्तरेण मामुद्दिश्य ।

 अय्येस्यादि । अस्ति , अर्थान्निवेद्यवस्तु । प्रदक्षिणीकुर्वन् प्रगतो दक्षिणे प्रदक्षिणः त कुर्वन् । अन्तर्जलावगाढया अन्तर्बाष्पपूर्णाया । एतेन दृष्टयवस्थावर्णनेन कण्ठस्य बाष्पस्तब्धता सन्देशवाक्यप्रसरपरिपन्थिनी सूचिता । बहुकं बहुमर्थम् । प्रास्थानिकप्रदाक्षणीकारवेलायां भत्री बहुसन्देशवचनादित्सामाविष्कृतवतापि बाष्पस्तब्धकण्ठतथा तां सफळयितुमशक्नुवता कथञ्चिदेकमेव वाक्यमत्यल्पं ‘गच्छ यौगन्धरायणं पश्ये" त्येवमारमकमभिहितमिति वाक्यार्थः । ईदृशी/ अर्थकल्पना प्रतिमानाटके चारुतरभङ्गयन्तराश्रया दृश्यते. —‘कमप्यर्थं चिरं ध्यात्वा वक्तुं प्रस्फुरिताधराः । बाष्पस्ताम्भितकण्ठत्वादनुक्स्वैव वनं गताः॥ इति ॥

 इतीत्यादि । तिष्ठति पूज्यजननामग्रहणानौचित्यशङ्कया पदशेषोच्चारणाद् विरमतीत्यर्थः ।

 स्वैरमित्यादि । स्वैरम् अशाङ्कतम् । अभिधीयतां मन्नामधेयमुच्चार्यताम् । एतत् त्वयाभेधीयमानं । स्वामिवाक्यं, न तु त्ववाक्यम् । अतोऽन्योच्चारितनामानुवादे न कश्चिद् दोष इति भावः ॥

 जोअन्धरायणं पेक्खेहित्तीति । अनेन वाक्यसंक्षेपेण , त्वया निवेदितसत्ववृत्तान्तः समुचितप्रतीकारारम्भैर्विपत्तेर्मामवश्यं मोचयेदित्येषोऽर्थो धोत्यते ॥