पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
प्रतिज्ञायौगन्घरायणे सव्याख्याने

कथमविषयवन्घ्यं धरायष्यत्यमष
 प्रणिपतति निरुद्धः सकृतो धर्षितो वा ॥ ११ ॥

(प्रविश्य)

 प्रतीहारी--(क) अय्य ! एसा पडिसरा ।

 यौगन्धरायणः


 (क) आर्य !एषा प्रतिसरा ।


 उज्जयिनीसंभाव्यानि दुःखनिभित्तान्युत्प्रेक्षमाणः स्वामिनमनुशोचति---कथधमिति । नरेन्द्रः राजा । अगणितपूर्वे अवज्ञातपूर्वे तं प्रद्योतम् । कयं द्रक्ष्यते कथं विलोकिष्यते कथेशब्दो गर्हायाम् । प्रद्योतदर्शनं ह्यस्यामवस्थायामतिदेव्रीडावहस्वात् कुसितं; तदिदानीमवर्जनीयत्वेनापतितमासाद्य लज्जादुःखं नैव सहिष्यत इति भाव: । सिद्धवाक्यः मङ्गळवचनः । नरेन्द्रः । अपुरुषवाक्यं कापुरुषसाधारणं वचनं क्क गतस्तवेदनीं शौर्योत्सेकः ‘ इत्यादिरूपम् , अर्थात् प्रद्योतेन भण्यमानम् । ‘कथं श्रोष्यते कथमाकर्णयिष्यति । प्रद्योतवाक्यश्रवणं झतिव्रीडावहत्वात् कुत्सितं ; तदेतदवर्ज्योपनतमासाद्य लज्जादुःखं नैव सहिष्यत इति भावः । नरेन्द्रः, आविषयवन्ध्यम् अविषयेण जय्याविषयाभावेन वन्ध्यं निष्फलम् । अमर्षे स्वजेतृप्रद्योतविषयम् कोपम् । कथं धारायिध्यति कथं हृदि गूहृिष्यति । घारणे गत्यभावात् क्रियमाणेमहत् कृच्छ्रमनुभविष्यतीति भावः । “ अथ गृहीतमपि मनस्वित्वात् स्वामिनं प्रद्योतः पूजयति, तदापि स्वामिनो दु:खम स्तीति सामान्यन्यायमुखेनाह-निरुद्धः प्रगृहीतो जनः । सत्कृतो धर्षितो वा, पूजितो वा तिरस्कृतो वा भवन् । प्रणिपततिनिरोद्धरि प्रह्रो भवति । एवञ्च स्वामिनः सत्क्रियमाणस्यापि परह्वीभावढु:- खमवर्जनीयमन्ततः स्थितमेवेति भावः । इह द्रक्ष्यते श्रोष्यत इति कर्तुलृट आत्मनेपदकरणमार्षम् । अथवा ‘ततः स ददृशे च तौ’ ‘तच्छृणुष्व मया ख्यातं” 'नन्दते च कुळ पुंसाम्’ इति चण्डीप्रयोगेष्वात्मनेपदानुपपत्तिमाशङ्कय “ कर्मक र्तरि वा रूपाणि’ इति समाधानमुक्तं दुर्घटवृत्तौ । सैव गतिरिह द्रष्टव्या पाणिनीयत्वसमर्थनाभनिवोशीभिः । किन्त्वस्मिन् पक्षे कथञ्चिद् गम्यमानोद्दिशिक्रियापेक्ष यकर्मत्वमाश्रित्य तमिति द्वितीयान्तप्रयोगः साध्यः ॥ ११ ॥

 अय्येत्यादि । प्रातिसरा यामानेतुं प्रतिहारी पूर्वे गता, सा। जातौ चैकवचनम् ॥