पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 हंसकः-(क) अण्णं च दाणि अच्चरिअं । अञ्ञोङमाणुणएण तहिं एक्को ववसिदो अकय्यं कत्तुं। सो दक्खिणाहिमुहं परिवत्ति अ भट्टारं समरवाआमसङ्कोहिदाणि णिरुवआरं सङ्खिविअ केसाणि पीडिअ करेण करवाळं पहारवेग उप्पादइदुकामो आधावन्तो

 यौगन्धरायणः- हंसक! वृत्तान्तं तावदधारय यावदहमुच्छ्वसामि ।


 (क) अन्यच्चेदानीमाश्चर्यम् । अन्योन्यनुनयेन तत्रैको व्यवसितोऽकार्यं कर्तुम् । स दक्षिणाभिमुखं परिवर्त्य भर्तारं समरल्यायामसंक्षोभितान् निरुपचारं संक्षिप्य केशान् पीडयित्वा करेण करवालं प्रहारवेगमुपादयितुकाम आधावन्


दिवायं शब्दतेऽर्थतश्चानूदितवान्, यथा। -‘हतोऽनेन मम भ्राता मम पुत्रः पिता मम । मातुलो भागिनेयश्च रुषा संरब्धचेतसा ॥ ’ ( परिच्छे ४.) इति । अयमर्थः स्वप्नवासवदत्तोपद्धति वितत्यास्माभिर्विचरितः ॥

 ततस्तत इति ॥

 अण्णं चेत्यादि । आश्चर्यम् आद्भुतम् । तच्च विवरीष्यमाणां दैवघटनमनुसन्धाय । अच्चाहिदं इत्यपि पाठः । अन्यच्च अस्याहितम् , एकं महाभयस्थानं बन्धनात्मकमुक्तम् अपरं च महाभयस्थानं संभूतमित्यर्थः । तस्यैव विवरणम् अन्योन्येत्यादिना । तत्र तेषु पापेष मध्ये । अन्योन्यानुनयेन परस्परस्य सन्स्वनेन त्वं कुरु त्वं कुर्वि’ति परस्परं प्रति तेषामेव प्रार्थनवाक्येनेत्यर्थः । एकः अकार्ये कर्तुं व्यवासित, पापिष्ठः कश्चिद् गर्हितं कर्म क्रर्तुम् उघुक्तः । एक इत्युवत्था अन्ये सर्वेऽन्याननुनीय प्रेरयन्तोऽपकर्ये स्वयं न प्रवृत्ता इत्यर्थसिद्धम् । तेन पापिनिमपि स्वयमनुष्ठानवैमुख्यजननी तस्याकर्थस्य गर्ह्यतायाः परा काष्ठा तदनुष्ठातुः पापिष्ठता च ध्वन्यते । अत्र्ञोञ्ञाणुणएण तर्हि ? इति क्कचिन्न पठयते । तदT तूत्तनोऽर्थ: । दक्षिणाभिमुखं परिवर्त्थ, उत्तानशायितमपर्वतनेन दक्षिणाभिमुखं कृत्वेस्यर्थः समरव्यायामसंक्षोभितान् युद्धव्यापारव्याकुलितान् । निरुपचारम् उपचारो भाव्यालङ्कारादि , तच्छून्यं यथा भवति तथा । करवालं खङ्गम् । उत्पादयितुकाम आधावन्निति, आधष्य दीयमानो हि खङ्गप्रहारः सवेगो भवति । इह ‘हुंकाममनसोरपि ' इति तुमुनो भलोपः ॥

 हंसकवाक्ये खवशेषे दुःखमसहमान आह-हंसकेत्यादि । अहं यावद् यत्काळावधि । उच्छ्वसामि दुःखादाश्वसिमि । तावत् तत्कालावधि । वृत्तान्तम्