पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/३७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५
प्रथमोऽङ्कः ।
अथ कस्य बेलायां प्रत्यागतप्राणः स्वामी ।
हंसकः-(क) अय्य ! अवसिदावळेचेयु पावेसु ।
यगन्धरयण -दिष्टया शरीरं धर्षितं , न तेजः। ततस्ततः ।
हंसकः--(ख) तदो पच्चअदप्पाणं दाणि भट्टारं पेक्खिअ अणेण
मम भादा हदे। अणेण मम पिदा अपेण मम सुदो मम वअस्सो ति
अब्जहा भट्टिणो परकपं वण्णअन्ता सव्यदो अभिहुदा दे पावा ।
यौगन्धरायणः - ततस्ततः ।

(क) आर्थ ! अवसिताबरूपेषु पापेषु ।
(ख) ततः प्रत्यागतप्राणमिदानीं भर्तारं प्रेक्ष्यानेन मम भ्राता हतोऽनेन मम
पितानेन मम सुतो मम वयस्य इति अन्यथा भर्तुः पराक्रमं वर्णयन्तः सर्वतो.
ऽभिद्रुतस्ते पापाः ।

अथेत्यादि । अथशब्दो वाक्यारम्भे । प्रत्यागतप्राणः प्रत्यापनसंज्ञः।
अय्येति । आर्य ! पापेषु दुष्टेषु परभटेषु । अवसितावलेपेषु अवसितः
परिसमाप्तः अवलेपः अविनयः स्वामिबन्धनलक्षणो येषां तेषु खसु । प्रत्यागतप्राण
इत्यनुषज्यते ।।
दिष्टयेति । रीरं संज्ञप्रणश्शनिश्चेष्टः केवलः स्वामिनो देहः । धर्षित बर
न्धनेन परिभूतम् । तेजः शर्यम् । न धार्षतं , ससंज्ञस्य बन्धने हि तेजो धर्षित-
मिति वक्तुं शक्यमिति भावः । संज्ञाप्रत्यागमनोत्तरकाले चेत् पापानामुद्यमोऽभवि
ध्यत्, स्वामी तेजःप्रकाशनेन बन्धनावसरमेव नादास्यादित्यष्याशयः । दिष्टयेति
हर्षेऽव्ययम् । स च स्वामतेजोधषणभावकृतः । ।
तदो इत्यादि । इदानीं प्रत्यागतप्राणं, बन्धनोत्तरकाले प्रतिलब्धसंज्ञम् ।
अनेनेत्यादयश्चत्वारो भर्तुविक्रमवर्णनप्रकाराः । इत्यन्यथा ,ईटचैः ‘मम मातुओं ”
‘मम भागिनेय’ इत्यादिमिरन्यैः प्रकारैरित्यर्थः । अथवा स्वावब्यापराधवर्णानभङ्गये
न्यर्थः । अनेनेति तृतीयान्तमार्दममेकमेव मातृकान्तरे पठ्यते । सर्वत: अभिद्रुतः
समन्ताद् अभिमुखं प्रधाव्यागताः । इदमत्र विज्ञेयं --काळिदासप्राचीन भामहे
नामालङ्कारिककूटस्थोऽस्या नाटिकायाः स्तसमयसुप्रसवत्वादामधेयमग्रहीत्वैव त-
दाश्रितेतिवृचौचित्यं काव्यालङ्कारे विचारयन् प्रसङ्गाद् ‘अणेण मम मादा' इत्या-