पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 हंसकः --(क) तदो जहासति सण्णिहिदगहणुष्पाडिदाहि भविण्णायमाणजादीहि कक्कसाहि ळदाहि पाकिओ विअ सरीरअन्तणादो पहरिसिदो भट्टा ।

 यौगन्धरायणः-कथं प्रधर्षितः स्वमी ।

पीनांसस्य विकृष्टपर्वमहतो नागेद्रहस्ताकृते-
 श्वपास्फाटिकरस्य दूरभरणाद बाणाधिकारोपिणः।
विप्राभ्यर्चयितुः श्रभेषु सुहृदां सस्कर्तुरालिङ्गनै-
 न्यैस्तं तस्य भुजद्वयस्य बलयस्थानान्तरे वन्धनम् ॥ ८ ॥


 (क) ततो यथाशक्ति सन्निहितगहनोत्पाटिताभिरविज्ञायमानजातिभिः कर्कशाभिर्लताभिः प्राकृत इव शरीरयन्भणात् प्रधर्षितो भर्ता ।


 तदो इत्यादि । प्राकृत इव सामान्यजन इव । शरीरयन्त्रणाद् देहबन्धनात् । प्रधर्षित: अभिभूतः, अर्थात् परभटैः ॥

 कथमित्यादि ।

 पीनेति । पीनांसस्य मांसलस्कन्धस्य । बिकृष्टपर्वमहतः विकृष्टपर्वण: व्यायामसंस्कृतग्रन्थेः अत एव महतः प्राप्तेरपचयस्य । नागेन्द्रहस्ताकृते: गजवरगुण्डाकारस्य । विशेषणत्रयेण दर्शनीयत्वमुक्तं द्वाभ्यां शूरत्वमाह—चापास्फालिकरस्य चपास्फालिनौ धनुर्व्याषीपारणशीलौ करौ पाणी यस्य तस्य तथाभूतस्य। दूरभरणाद् दूरम् अभ्यर्थं भरणात् , स्वकृस्यसहायकृत्ययोरारत्मैकनिर्वाह्यतयेपनतात् कृत्यातिभारादित्यर्थः । बा णाधिकारोपिणः बाणानाम् अधिकारोपिणः अधिकं स्वशक्तयतिक्रमेण आरोवयितुं चापे सन्घातुं शीलमस्येति तथाभूतस्य । विप्राभ्यचीर्यतुः ब्राह्मणपूजकस्य । क्ष्रमेषु आयाससाधितेषु कर्मसु विषये । आलिङ्गनैः बहुमानसर्वस्वभूतैः परिष्वङ्गै । सुहृदाम्, अर्थात् कृतकर्मणां । सकर्तु: पूजयितुः। तस्य उक्तानुक्तबहुगुणविख्यातस्य । तत्पदेन स्वामिपरामर्शात् स्वामिसम्बन्धिन इति वार्थः। भुजद्वयस्य, वलयस्थानान्तरे कङ्कणभूषणीये स्थानाविशेषे, प्रकोष्ठे इत्यर्थः । बन्धनं, न्यस्तं निवेशितम् । अत्र अतिकष्टो दशाविपर्यासः स्वामिनो दैवेनापादित इति शोकातिशयो यौगन्धरायणस्य द्योत्यते ॥ ८ ॥