पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
प्रथमोऽङ्कः ।

ततस्ततः।

 हंसकः-(क) तदो कीळाअमाणो विअ अतच्छन्दाणुवत्तिणा सुन्दरपाडळेण अस्सेण अत्ताभिप्पाआदो वि अहिअं पहरन्तो अदिबहुकदाए परबळस्स अदिप्पउज्जमाणबाआमो विसण्णणट्ठसव्वपरिजणो मए एक्काइणा, णहि णहि, भट्टिणा एव्व रक्खिअमाणो अणुबद्धदिवसजुद्धपरिस्सन्ता बहुप्पहारणिपडिअतुरओ तम्माअमाणसुर्यदारुणाए वेळाए मोहं गदो भट्टा ।

 यौगन्धरायणः—कथं मोहमुपगतः स्वामी । ततस्ततः।


 (क) ततः क्रीडन्निवास्मच्छन्दानुवर्त्तिना सुन्दरपाटळेनाश्वेनास्माभिप्रायादष्यधिकं प्रहरन् अतिबहुकतया परबलस्यातिप्रयुज्यमानम्यायामो विषण्णनट्सवपरिजनो मयैकाकिना, नहि नहि, भत्रैव रक्ष्यमाणोऽनुबद्धदिवसयुद्धपरिश्रान्तो बहुप्रहारनिपतिततुरगस्ताम्यत्सूर्यदारुणायां वेलयां मोहं गतो भर्ता ।


तिपद्यते कर्तव्यतयध्यवस्यति । शत्रुवञ्चितस्य लज्ज़मानधैर्यशीर्थशालिन उपायान्तरमपश्यतः सहायारूपत्वेऽपीडशेऽवसरे शत्रुबूलप्रवेशसाहसमेव प्रतिपत्तुमुचितभिति भावः । अत्र व्रीलितत्वादिपदार्थानां परबलप्रवेशप्रत्तिपतिसमर्थकस्वात् काव्यलिङ्गमलङ्कारः ॥ ७ ॥

 तद् इत्यादि । आत्मच्छन्दानुवर्तिना गतिस्थाितिविशेषेषु स्वाभिप्रायानुसारिणा । आत्माभिप्रायाद् अधिकं प्रहरन् शत्रुषु विषये प्रहरणकर्भ यावत् कर्तव्यमित्यात्मनो मनोरथः, ततोऽधिकं क्रियाकाले तत् कुर्वन्नित्यर्थः । अतिप्रयुज्यमानव्यायाम: अतिप्रयुज्यमानः स्वशक्तिमतिक्रम्य क्रियमाणः व्ययामः काधिक आयासो येन स तथाभूतः । एकाकिना असहायेन आत्मैकशेषेणेत्यर्थः । सर्वरक्षणशक्त्तस्य स्वस्वामिनो रक्षणे स्वस्य कर्तृत्वमाख्यायमानमौद्धत्यद्योतकामिव मन्यमानस्तत् प्रतिषेधति--नहि नहीति । भत्रैव रक्ष्यमाणः भर्तृभाग्येनैव पाल्यमानः । भर्तृभाग्यगते रक्षणकर्तृत्वं भर्तर्युपचर्यते, तद्भाग्याधीनं हि तदधीनं भवतीति । भर्तृभाग्थे भर्तृरक्षणं प्रति प्रभाविष्णौ विद्यमाने किमप्युपकरणमात्रमहमिति तात्पर्यम् । अनुबद्धदिवसयुपरिश्रान्तः अविच्छिन्नदिनयुद्धपरािखिन्नः । ताम्यत्सूर्यदारुणायां ताम्यत्सूर्यायां ग्लायत्सूयीयां च अत एव दारुणायां चेति विशेषणोभयपदकर्मधारयः । वेलायाम् अयत् सायंसन्ध्यायां । मोहं मूर्छाम् ॥

 कथमित्यादि ॥