यौगन्धरायणः-ततस्ततः ।
हंसकः–(क) तदो णामगोत्तग्गहणेण समस्सासिअ कुळवुत्तजणं सव्वहा पज्जोदप्पओओ एसो, अणुगच्छह मं, अहं दाणिं परस्स उवण्णासं विसमारम्भं परक्कभेण समीकरोमि त्ति भणिअ भट्टा पविठ्ठो एव्य तं परबळु ।
यौगन्धरायणः प्रविष्ट इति । अथवा ननु स्थाने
त्रीलितो वञ्चनां प्राप्य मानी सबमुपाश्रितः । |
(क) ततो नामगोत्रग्रहणेन समाश्वास्य कुलपुत्रजनं सर्वथा प्रद्योतप्रयोग एषः, अनुगच्छत माम् , अहमिदान परस्योपन्यासं विषमारम्भं पराक्रमेण समीकरोमीति भणित्वा भर्ता प्रविष्ट एव तत् परबलम् ।
भवति । प्रत्युद्गतः प्रतीपमुद्गतः । आयुधीयाः कृत्रिमगज कुक्षेर्निर्गस्यास्मनभ्यद्रवन्निति वाक्यतत्पर्यम् ॥
तत इत्यादि ॥
गजकृत्रिमत्वं ज्ञातवतो वत्सराजस्य प्रतिपत्तिमाह--तदो इत्यादि । कुलपुत्रजनम् आत्मसहायभूतमभिजातपुरुषवर्गमित्यर्थः । नामगोत्रग्रहणेन एकैकनामगोत्रनिर्देशवताभिसम्बोधनेनेत्यर्थः । एतच्चादरातिशयाविश्चकारार्थम् । समाश्वास्य परिसान्त्व्य । सर्वथेत्यादि समीकरोमीत्यन्तं परिसान्त्वनवाक्यम् । उपन्यासं छळप्रयोगं । विषमारम्भं विषमः आशङ्कनीयानर्थः आरम्भो यस्य तं । समीकरोमि सभम अविश्रमम् आपादयामि ।
प्रविष्ट इतीति । प्रविष्ट इति, इदमपूर्णे वाक्यम् एतदयुक्तमिति शेषेण पूरणीयम् । परबलप्रवेशस्यायुक्तस्वं सूचितं प्रातािक्षिपन् युक्तत्वमाह--अथवेत्यादि । स्थाने युक्तम् । सुबन्तप्रतिरूपमव्ययामिदम् ।
युक्तस्वं समर्थयते—त्रीलित इति । वञ्चनां शत्रुसकाशाच्छलनं । प्राप्य व्रीलितः लजितः । मानी चित्तसमुन्नतिमान् । सत्वं धैर्यम् । उपाश्रितः, शूरश्च, एकायनस्थश्च एकस्मिन्नेव न तु सद्वितीये अयने शत्रुप्रतीकाराभ्युपाये तिष्ठतीति तथाभूतश्च । अर्थात् स्वामी । अन्यत् किं परबलप्रवेशातिरिक्तं कीदृशं कर्म । प्र