यौगन्धरायणः-हंसक ! अस्मपरिताप इत्युच्यताम् । ततस्ततः।
हंसकः-(क) तदो भट्टिणा ओदरिअ अस्सादो आअमिअ देवदाणं पणामं करिअ गहीदा वीणा । तदो पिट्ठदो एक्ककिदणिच्चओ विअ महअन्तो कण्ठीरवो समुटपण्णो ।
यौगन्धरायणः-- कण्ठीरव इति । ततस्ततः ।
हंसकः-(ख) तदो कण्ठीरवपारिरवपरिञ्ञाणन्णणिमित्तं परिवृत्ता अ वअं । महामत्तोत्तराउहीआहिट्टिदो पच्चुग्गदो सो किदअहत्थी ।
(क) ततो भर्त्रावतीर्याश्वदागम्य देवतानां प्रणामं कृत्वा गृहीता वीण। ततः पृष्ठत एककृतनिश्चय इव महान् कण्ठीरवः समुत्पन्नः ।
(ख) ततः कण्ठीरवपरिज्ञाननिमित्तं परिवृत्ताश्च वयम्। महामत्रोतरायुघीयाधिष्ठितः प्रत्युद्गतः स कृतकहस्ती ।
नीलः देहगतो नीलगुणो यस्य तस्य भावस्तत्ता तया । उपलक्षित इति शेषः । अत एव गजशरीराविवेकादुत्प्रेक्षते—अशरीरविनिक्षिप्तभ्यामिव शरीरविनाभावेन निवेशिताभ्यामिव । दन्तयुगाणाभ्यां सूचितः दन्तचतुष्टयेन लिङ्गेन ज्ञपितः । दिव्यवारणप्रतिच्छन्दः दिव्यगजप्रतिकृतिः । दिव्यस्व।च दन्तचतुष्टयोपपत्तिः । दन्तयु गलेनेति वा संस्कृतं, प्राकृते वचनानियमात् ॥
इसकेत्यादि । अस्मत्परितापः, तद्धेतौ गजे तत्तवारोपः ॥
तदो इत्यादि । पृष्ठतः पश्चाद्भागे । एककृतनिश्चय इव एकं नीलहस्तना समानं यथा भवति तथा कृतः निश्चयः फलाध्यवसायो यस्य स तथाभूत इव, गजसमानफळाभिसन्धिप्रवार्तित इवेति यावत् । अग्रतो नीलगज़स्य पृष्ठतः सिंहस्य च समक|लाविर्भावस्तयोस्तुल्याभिसन्धिप्रवर्तितत्वं हि गमयतीत्यभिप्रायः। कण्ठीरवः सिंहः ॥
कण्ठीरव इत्यादि ॥
तदो कण्ठीरवेत्यादि । महामात्रोत्तरायुधीयाधिष्ठितः महामात्रोत्तरैः गजाध्यक्षप्रधानैः आयुधीयैः योधै: अधिष्ठितः.गर्भितः। सः कृतकहस्ती कृत्रिमगजः । एतावतान्तर्योधशतपूरितो बहिर्गजकारो यन्त्राविशेषोऽयं, न तु सस्यगज इंत्युक्तं