पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 हंसक–(क) तदो अतजी विदणिद्दिठ्ठेण सवहेण णिवारिअ अमच्चं णीळवळाहआदो हस्थिरो ओदरिअ सुन्दरपाडलं णाम अस्सं आलुहिअ अणद्धगए सुय्ये विंसदिमत्तेहि पदादिहि सह पआदो भट्टा ।

 यौगन्धरायणः—विजयाय । हा धिक् , रत्रेहात् पूर्ववृत्तान्तो नावेक्षितः । ततस्ततः ।

 हंसकः -(ख) तदो दिउणं विअ अद्धाणं गच्छिअ साळळुक्खच्छाआए सवण्णणट्ठणीळदाए परुब्बासिदेहि असरीरविणिक्खित्तेहि विअ दन्तजुअलेहि सूइदो धणुसदमत्तेण विअ दिट्टो सो दिव्ववारणपडिच्छन्दो ।


 (क) तत आत्मजीवित निर्दिष्टेन शपथेन निवार्यामत्यं नीलवलाहकाद् हस्तिनोऽवतीर्य सुन्दरपाटलं नामाश्वमारुह्यानर्धागते सूर्ये विंशतिमात्रैः पदातिभिः सह प्रयातो भर्ता ।

 (ख) ततो द्विगुणमिवाध्वानं गत्वा सालवृक्षच्छायायां सावर्ण्यनीलतया प्रोद्भासिताभ्यामशरीरविनिक्षिप्तभ्यामिव दन्तयुगलाभ्यां सूचितो धनुःशतमाय त्रेणेव दृष्टः स दिव्यवारणप्रतिच्छन्दः।


 तदो इत्यादि। आत्मजीवितनिर्दिष्टेन आत्मजीविते विषये निर्दिष्टेन स्वजीवितं निर्दिश्य कृतेनेत्यर्थः । एतेन शपथस्यालङ्बनीयता सूचिता । अनर्धागते अनर्धेन अर्धन्न्यूनेनैकदेशेन आगते, किञ्चिदुदित इत्यर्थः। विंशतिगात्रैः विंशस्यैव, न तु ततोऽधिकैः । प्रयातः प्रस्थितः ॥

 विजयायेति । विजयाय नीलहस्तिसाधनाय । प्रयात इति प्रकृतं सम्बध्यते । इह काक्का निस्सहायस्य विजयाय प्रयाणमिदमनुचितमिति सूचयति । हा धिगिति निन्दायां , वक्ष्यमाणमनवेक्षणं निन्दितमिस्यर्थः । स्नेहात् हस्तिग्रहणकौतुकात् । पूर्ववृत्तान्तः पूर्वः अनुभूत: वृतान्तः शत्रोः प्रद्योतस्य स्वपराभवोद्यमवार्ता । नावेक्षितः न चिन्तितः । अवेक्षणे हि प्रद्योतच्छलवयोगशङ्कया हस्ति नमसहायो नाभिगच्छेदित्यभिप्रायः ॥

 तदो इत्यादि । द्विगुणमिव अध्वानं गत्वेत्यनेन एकगुणध्वगमनपेक्षितेकाले द्विगुणध्वगमनमतिवेगसाध्यमुक्तम् । तेन चातिसम्भ्रमः सूचितः। सावर्ण्यनष्टनीलतया साळवृक्षच्छायया यत् सावर्ण्यं समनवणर्त्वं तेन नष्टः विविच्यागृहीत