पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
प्रथमोऽङ्कः ।

 हंसकः--(क) णहि णहि । पसादिअ भट्ट अमच्चेण विण्णाविदोणहु दे एळावणादणं वि दिसागआणं गहणं ण सम्भावणीअं । अत्रिदु दुरारक्खदाए आसण्णदोसाणि विसअन्तराणि । तर्हि णिळ्ळज्जो णिरभिजणो पच्चन्तवासी जणो । ता पदादिमत्ताहिट्टिदं इमं जूहं करिअ सव्व एव्व गच्छामो , ण एकाइणा सामिणा गन्तव्वं त्ति ।

 यौगन्धरायणः—अपि महाजनसमक्षमेवमुक्तः स्वामी रुमण्वता । एवमप्यवक्तव्यां स्वामिभाक्त्तिच्छामि । ततस्ततः ।


 (क) नहि नहि । प्रसाद्य भर्तामात्येन विज्ञापितः--नखळु ते ऐरावणादीनमपि दिशागजानां ग्रहणं न सम्भावनीयम् । अपितु दुरारक्षतयासन्नदोषाणि विषयान्तराणि । तत्र निर्लज्जो निरभिजनः प्रत्यन्तवासी जनः । तत् पददातिमात्राधिष्ठितभिदं यूथं कृत्वा सर्व एव गच्छामः, नैकाकिना स्वामिन । गन्तव्यमिति ।


 णहीत्यादि । नहि नहि नैवोपेक्षित इत्यर्थः । निषेधस्य द्विरुक्तिर्दार्व्याय । प्रसाद्य अनुनीय । दिशागजानामपि, किमुत सामान्यगजस्येस्यपिशब्दार्थः । गहणं वनं, ग्रहणं वा । नखळु न सम्भावनीयं सम्भावयितुमाक्रमितुमशक्यं नैव भवति । अपितु तथापि ! दुरारक्षतया दुःखेन आरक्षितुं शक्यानि दुरारक्षाणि तेषां भावस्तत्ता तया । आसन्नदोषाणि सन्निहितानर्थानि । विषयान्तराणि देशविशेषाः । आसन्नदोषत्वं च दुर्जनाधि बासस्थानत्वादित्याशयेनाह---तहिमित्यादि । निरभिजनः दुष्कुलः । प्रत्यन्तवासी प्रत्यन्तोऽनार्यदेशः , तद्वसी । एतेन कृत्याकृत्यविवेकविकलता ध्वनिता । सर्वे समस्ताः, गजयूथविनियुक्तपदाव्यतिरिक्ताः परिवाराः स्वामी अहं चेत्यर्थः ।

 अपीत्यादि । अपिशब्दः कच्चिदर्थे कामप्रवेदने । महाजनसमक्षं परिजनसमूह इह महाजनः, तस्य समक्षं प्रत्यक्षं यथा भवति तथा । एवमपि अनेन प्रकारेणापि । अवक्तव्याम् इच्छामि निरपवादां मन्ये । इच्छतीति पाठे रुमण्वान् आर्थिकः कर्ता ॥