पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 हंसकः-(क)कहं परिण्णादं खु एदं अय्येण । जागत्ति खु समुप्पएणो अअं दोसो ।

 यौगन्धरायणः -इंसक ! जाग्रतोऽपि बलवत्तरः कृतान्तः। ततस्ततः ।

 हंसकः-(ख) तदो सुवण्णसदप्पदाणेण वं णिसंसं पडिपूजिअ भट्टिणा उंचं –अस्थि एस चक्कबड़ी हथी गीळकुवळअत णाम हस्थि सिक्खए पठिदो । ता अप्पमत्ता होह तुझे इमस्सिं जूहे । गअं तं अहं वीणादुदीओ आणेमि त्ति ।

 यौगन्धरायणः- अथ कथमुपेक्षितस्तदानीं स्वमी रुमण्वता ।


 (क) कथं परिज्ञातं खल्वेतदार्येण । जाग्रति खलु समुत्पन्नोऽयं दोषः ।

 (ख) ततः सुवर्णशतप्रदानेन तं नृशंसं प्रतिपूज्य भर्त्रोक्तम्-अस्त्येष चक्रवर्ती हस्ती नीलकुवलयतनुनाम हस्तिशिक्षायां पठितः। तद् अप्रमता भवत यूयमस्मिन् यूथे । गजं तमहं वीणाद्वितीय आनयामीति ।


 कहमित्यादि । एतत् परचिकीर्षितं छलनम् । आर्येण, कथं परिज्ञातं खलु विदितमेव किम् । जाग्रति जागरूके सति अर्थादार्थे । एवं पराचिकीर्षितं छलप्रयोगं पूर्वमेव विज्ञाय प्रातिविधानौन्मुख्यं भजमानेऽप्यार्थे भर्तुरयमनर्थः खमुत्पन्न इत्याश्चर्यभयभिप्र।यः ॥

 हंसकेस्यादि । कृतान्तः कालो भवितव्यता । जाग्रतोऽपि पुरुषकारं कुर्वाणादपि । बलवत्तरः अतिशयेन बलवान् ॥

 तदो इत्यादि । सुवर्णशतप्रदानेन सुवर्णाख्यनाणकाविशेषशतस्य दानेन । चक्रवर्ती सम्राट् । इहस्तिशिक्षायां गजळक्षणशास्त्रे । अप्रमत्ता भवत यूयमवाहिताः प्रतिपालयतेत्यभिप्रायः । तं गजं नीलहस्तिनं । धीणाद्वितीयः वीणासहायः । एतेन, वीणावादनेनैव केवलेन नीलहस्तिनं साधयितुं क्षमः सैन्यसह।य्यं नापेक्ष इति सूचितम् ॥

 अथेत्यादि । कथम् उपेक्षितः एकाकी नीलहस्त्यभिमुखं गच्छन् कथमवारितः, अननुयातो वेत्यर्थः ॥