पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 हंसकः-(क) अय्य ! तह। (उपविश्य) सुणादु अय्यो । सावसेसपच्चूसाए रअणीए वाहणसुहाए वेळाए वालुआतिथेण णइं णम्मदं तरिअ वेणुवणे कळत्तं आबासिअ छत्तमत्तपरिच्छदेण गजहविमद्दजोरोण बळेण मग्गमदअणीए वीहीए णाअवणं पआदो भट्टा ।

 यौगन्धरायणः -ततस्ततः ।

 हंसकः-(ख) तदो इसुक्खेवमत्तोरिथदे सुय्ये एत्तिअमत्राणि विअ जोअणाणि गच्छिअ कोसंमत्तेणं विअ मदअंघीरपव्वदं अणासादिअ तडाअपकुक्खित्तं अद्भणिम्मिदसिळाकम्मं विअ विसमदंसणं दिठ्ठं णो णाअजूहूं।


 (क) आर्य ! तथा। क्षृणोत्वार्यः। सावशेषप्रत्यूषयां रजन्यां वाहनसुखायां वेलायां बालुकातीर्थेन नदीं नर्मदां तीर्वा वेणुवने कलत्रमावास्यं छत्रमात्रपरिच्छदेन गजयूथविमर्दयोग्येन बलेन मार्गमदन्या बीथ्या नागवनं प्रयातो भर्ता ।

 (ख) तत इषुक्षेपमात्रोस्थिते सूर्ये एतावन्मात्राणीव योजनानि गत्वा कोशमात्रेणेव मदगन्धीरपर्वतम् अनासाद्य तटाकपङ्कोत्क्षिप्तम् अर्धनिर्मिताशिलाकर्मेव विषमदर्शनं दृष्टं नो नागयूथम् ।


 अय्येत्यादि । सावशेषप्रत्यूषायां सावशेषः किञ्चिदवाशिष्टः प्रत्यूषः उषःकालो यस्यां तस्यां । वाहनसुखायां वाहनानाम् अश्वादीनां सुखायां सुखकारिण्यां । वालुकातीर्थेन सिकताप्रायेण नद्यवतारेण । नर्मदां रेबानदीं। छत्रमात्रपरिछदेन छत्रमात्रम् आतपत्रमेव परिछदः उपकरणं यस्य तेन । गजयूथविमर्दयोग्येन गजवृन्दमृगयार्हेण । मार्गमदन्या मार्गे मृगसमूहः, समूहूर्थेऽण् । तद् मदयति हर्षयतीति मार्गमदनी, तया । मिअमदकण्ठीए इत्यपि पाठः । मृगाणां व्याघ्रादीनां मदकण्ठः हर्षनादः यस्यां तया तथाभूतयेस्यर्थ: । मिअपदकण्ठीए’इस्यपपाठः ॥

 ततस्तत इति ॥

 तदो इत्यादि । इषुक्षेपमात्रोत्थिते खाति क्षिप्तो बाणे यावद् दूरं गच्छति तावदन्तरमिषुक्षेपः , इषुक्षेपमात्रमन्तरम् उस्थिते उन्नते सति । एतच्च द्रष्टृबुद्धयनुसारादुक्तम् । एतावन्मात्राणि इयत्परिमाणानि । इदं च योजनसंख्याया अङ्गुलिनिर्देशन