पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
प्रतिज्ञायौगन्धरायणे सव्याख्याने
यौगन्धरायणः-घरते तावादित्यनूर्जिता विपत्तिरभिहिता । गृहीतेन
स्वामिना भवितव्यं ननु ।
हंसकः -(क) सुडु अय्येण विञ्ञादं । गहीदो भट्टा ।

यौगन्धरायणः -कथं गृहीतंः स्वामी । हन्तभोः महान् खलु भारः प्रद्योतस्य भाग्यैर्निस्तीर्णः अद्यप्रभृति वत्सराजसचिवानां प्रतिष्ठितमसामर्थ्यमयशश्च । इदानीमनुत्पन्नकार्यपण्डितो रुमण्वान् क गतः । इदानीमश्वारोहणीयं क्व गतम् । कुतः ,

स्त्रिग्घं सौहृदहृतं च कूलद्रुतं च व्यायामयोग्यपुरुषं च गुणार्जितं च ।


(क) सुष्ट आर्येण विज्ञातम् । गृहीतो भर्ता ।

 धरत इत्यादि । इति अनेन वाक्येन । अनूर्जिता अमहती प्राणापायानुत्पादिकेत्यर्थः । विपत्तिः आपत् । अभिहिता प्रतिपादिता । तथाविधाया विपत्तेर्ग्रहणरूपतां सम्भाव्य पृच्छति-गृहीतेनेत्यादि ॥

 यौगन्धरायणसम्भावनामभिनन्दनाह-–सुट्टु इत्यादि । विज्ञातम् ऊहितम् ॥

 कथमित्यादि । हन्तभो इति विषादे। भारो दुष्करं कर्म वत्सराजप्रहणरूपम्। निस्तीर्णः सघितः। वत्सराजसचिवानां मम च रुमण्वदादीनां च । प्रतिष्ठितं रूढम् । असामर्थ्ये स्वस्वामिरक्षणाशक्त्तत्वम् । अयशश्च अकीर्त्तिश्च । इदानीं स्वामिग्रहणसमये । अनुत्पन्नकार्यपण्डित: अनुत्पन्ने कार्यं पण्डितः अनागत एव कार्ये तदईपूर्वसविधाननिपुणः अनागतविधातेत्यर्थः । अथव उत्पन्ने कार्येऽनर्थरूपे पण्डितः सद्यः प्रतिविधिनिपुणः उत्पन्नकार्यपण्डितः, स न भवतीत्यनुत्पन्नकार्यपण्डितः अप्रत्युत्पन्नमतिरित्यर्थः । अस्मिन् पक्षे निन्दापरं विशेषणं, निन्दा च स्वामिरक्षणकरणात् । रुमण्वान् तन्नामकोऽमात्यो वत्सराजस्यानुगन्ता । अश्वारोहणीयम् अश्वमारोद्दतीत्यश्वारोहणीयं सादिबलं । ’कृत्यल्युटो बहुलम्' (३-३-११३) इति बहुलवचनात् कर्तर्येनीयर्। क गतं किं स्वामपार्श्व न स्थितं, स्थितं चेत्, तदवश्यं स्वामिनमरक्षिष्यदित्यभिप्रायः ।

 कुतस्ते तास्मिन् स्वामिरक्षणसामर्याविस्रम्भ इत्याकाङ्कायामाह-स्निग्धं चेति । अक्ष्चारोहणीयं प्रकृतं विशेष्यं । स्निग्धं च स्वामिनि स्नेहयुक्तं च । सौह-