पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमोऽङ्कः ।
सलकः--(क) णहि , सुदपुरुवो ।

यौगन्धरायणः'- एतदपि मेधाविळक्षणम् । भोः वनगजप्रच्छादितशरीरं नीलहस्तिनमुपन्यस्य प्रद्योतः स्वामिनं छलयितुकाम इति प्रवृत्तिरुपगता नः । अपीदानीं स्वामिनीं बुध्द्यतिक्रमो न स्यात् । अहोतुखलु वत्सराजभीरुत्वं प्रद्योतस्य । व्यक्तीकृतमसामर्थ्यमक्षौहिण्याः। कुतः

व्यक्त बलं बहु च तस्य न चैककार्यं
सङ्खयातवीरपुरुषं च न चानुरक्तम् ।
(क) नहि, क्ष्रुतपूर्वः ।

 पूर्वं दृष्टः सञ्चारावगतयावद्विशेषः । मार्गो हि तद्गतवक्रत्वादिविशेषपरिज्ञाने शीघ्रलङ्घ्यो न भवतीति मत्वा ताद्वेषयः प्रश्नः ॥

 णहीति । नहि नैव दृष्टपूर्वः । किन्तु, क्ष्रुतपूर्वः पूर्वे श्रुतः श्रवणावगतयावाद्विशेष इत्यर्थः ॥

 एतदपीति । एतदपि ऋते पूर्वदर्शनात् क्ष्रवणमात्रेण मार्गागतयावाद्विशेषपरिज्ञानमपि । अपिशब्देन स्वामिकार्यनिर्वाहोत्साहः समुञ्चीयते । मेधाविळक्षणं बुद्धिमचिंचह्नम् । इत्यं सालकमभिनन्द्य कार्यगतं चिन्तयति – भो इत्यादि । भोश्शब्दो विषादे । वनगजप्रच्छादितशरीरं वनगजैः समन्तात् स्थितैः प्रच्छादितं द्रष्ट्वदुर्विज्ञेयतया तिरोहितं शरीरं यस्य तं । नीळहस्तिनं नीलवर्णे गजम् । उपन्यस्य कल्पायित्व । उपन्यासो मिथ्यासृष्टि: । छलयितुकामः छळयितुं वञ्चयितुं वञ्चनया ग्रहीतुं काम इच्छा यस्य स: । वञ्चना चानुपदं स्फुटीभविष्यति । प्रवृत्तिः वार्ता । उपगता विदिता अर्थाच्चरमुखात् । नः अस्माभिः । क्तस्य च वर्तमाने(२-३- ६७) इति षष्ठी; शेषलक्षणा वा । इदानीम् इयति काळे । स्वामिनः, बुद्धयतिक्रमः बुद्धेः अतिक्रमः वस्तुतस्त्वापरिज्ञानानिमित्ता अयथावत्प्रवृत्तिः प्रद्योतप्रयुच्छवागुरापतनामिति यावत् । अपि न स्यात् अपि न भवेत् । अपिशब्दः कामप्रवेदने, बुद्धयातिक्रमो मा भूदिति मे काम इति तात्पर्यम् । छळप्रयोक्तुर्वत्सराजभीरुत्वमनुमायाह--अहोत्वित्यादि। अहोतुखलु आश्चर्ये । वत्सराजभीरुत्वं वत्सराजतकाशाद् भयम्। अक्षौहिण्याः अतिमहतः सेनापरिमाणविशषेस्यामयस्य । अखमर्थ्ये चरसराजसहयोधनाशक्तस्वं । व्यक्तीकृतं स्पष्टीकृतं, अर्थात् प्रद्योतेन ।