पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रतिज्ञायौगन्धरायणे सव्याख्यानै
नंटी–(क) अज्ज मए सिविणे ञ्ञादिकुळस्स अस्सस्थं विअ
दिट्ठं । ता इच्छामि अय्येण कुसळविञ्ञाणणिमित्तं कञ्चि पुरुसं पेसिदुं ।
सूत्रधारः बाढम् ।
पुरुषं प्रेषयिष्यामि व्यक्तमात्महिते क्षमम् ।

(नेपथ्ये)

सालक ! सज्जस्त्वम् ।
सूत्रधारः ------

(क) अद्य मया स्वप्ने ज्ञातिकुलस्यास्वास्थ्यमिव दृष्टम् । तदिच्छाम्यार्येण कुशकविज्ञाननिर्मित्तं कञ्चित् पुरुषं प्रेषयितुम् ।


अज्जेत्यादि । ज्ञातिकुलस्य तातकुलस्य अर्थात् पितृसम्बन्धिनो जनस्य । अस्वास्थ्यं अस्वस्थंस्वं रोगिवम् । आर्येण प्रयोज्यकर्त्रा, अथवा आर्येण हेतुना आर्यद्वारेणेत्यर्थः । कञ्चित् पुरुषं प्रेषयितुमिच्छामि, न त्वेतस्मिश्चिन्तावसरे गातुमिच्छामीत्यर्थः ॥

बाढमिति । बाढमस्यङ्गीकारे ।

पुरुषीमिति । व्यक्तं विद्वांसं, वेदितव्यवस्तुकुशलमित्यर्थः । विदुषोऽष्यहितत्वे प्रेषणानईत्वादाह--आत्महिते मस्पथ्यानुष्ठाने क्षमं शक्तम् । आत्मादितक्षमभिति क्कचित् समस्तपाठः। पुरुषं प्रेषयिष्यामि अर्थात् त्वज्ज्ञातिकुलं प्रति ।

व्यक्तं स्पष्टं बुधे तु ना’ इति मेदिनी ।

नेपथ्य इति । प्रवृत्तामिति शेषः, अर्थाद् वक्ष्यमाणं वाक्यम् ॥

तदेवाह- सालकेति । हे सालक ! त्नं, सजः सन्नद्धः किम् । अर्थान्मन्नियोगानुष्ठानाय । इह प्रश्नकाकुः। अयं च नटीसंवादप्रसङ्गोपक्षिप्तेनार्थेन तत्सरुपं यौगन्धरायणचिकीर्षितसालकाख्यास्त्रिग्धनिपुणदूतसम्प्रेषणात्मकं नाटिकीयकथायस्तुनोंऽशं प्रथभप्रयोज्यतया सूवितं मन्घनस्य कुशीलवरथ यौगन्धरायणभूमिकाग्राहिणो नेपथ्ये व्य।ह।रो यथासूचितवस्तुप्रयोगसन्नद्धतमात्मनो द्योतयितुम् ॥